वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 307, कुल 490 में से
संदर्भ में पढ़ेंमन्त्रः ३११ शक्तान् कुलोचितान् भक्ताननाक्षारितपूर्वकान् ॥ अनाक्षारितपूर्वकान्, अनपकृतपूर्वान् । नीतिज्ञान् व्यवहारज्ञानितिहासार्थकोविदान् ॥ इङ्गितज्ञानुपायज्ञान् शूरान् वीरान् कुलोद्गतान् । सर्वकार्येषु निपुणानिष्वस्त्रविधिपारगान् ॥ दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान् । अक्षुद्रान् क्षमिणः प्राज्ञाननागतविधायिनः ॥ आयत्यां प्रतिकारांस्तत्तदात्वे दृढनिश्चयान् । द्विषन्मित्राञ्युदासीनभावज्ञान् शंसितव्रतान् ॥ स्वभावगुप्तानचलानचलानिव भारत । धर्मशीलानकृपणांस्तथा सर्वोपधातिगान् ॥ उपधा, छद्म । धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः । येऽस्य राजधुरं वोढुं समर्थाः सद्गवा इव ॥ तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः । विद्यानां दर्शने यत्नमातिष्ठेद्भरतर्षभ ॥ इति । मन्त्रिभिर्यथा वक्तव्यं तदुक्तम्— श्रीरामायणे, यत्प्रियं च हितं चैव साधु धर्म्यं च सर्वशः । ब्रूयुस्तन्मन्त्रिणो वाक्यं मन्त्रमाणे विशेषतः ॥ प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम् । प्रियमेव हि वक्तव्यं हितमेव हि मन्त्रिणा ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ इति । मन्त्रोत्तरं स्वयमेकाकिना विचार्यमित्युक्तम्—