वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 308, कुल 490 में से
संदर्भ में पढ़ें३१२ वीरमित्रोदयस्य राजनीतिप्रकाशे विष्णुधर्मोत्तरे, पृथक् च मन्त्रिभिर्मन्त्रः कृतो वै संहतैः पुनः । विचार्य आत्मना साधु पश्चात्तत्र समाश्रयेत् ॥ प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः । क्षिप्रं विनाशमायाति तडागमिव काजलम् ॥ आकारगूहनै राज्ञो मन्त्ररक्षा परा मता । आकारैरिङ्गितैः प्राज्ञा मन्त्रं चोहन्ति पण्डिताः ॥ सञ्चराणां च वैद्यानां मन्त्रिणां वचने रतः । राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ॥ इति । इति मन्त्रः । अथ पौरुषम् तत्र याज्ञवल्क्यः, दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता । तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ दैवं पौर्वदेहिकमिति सम्बन्धः । के१चिद्देवाद्धठात्केचित्केचित्पुरुषकारतः । सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिस्तु पौरुषम् ॥ यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ इति । मनुरपि, सर्वं कर्मेदमायत्तं विधाने दैवमानुषे । १ केचिद्देवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ इति विज्ञाने- श्वरसम्मतः पाठः ।