वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 309, कुल 490 में से
संदर्भ में पढ़ेंदैवपौरुषयोः पौरुषस्य श्रेष्ठत्वम् । ३१३ तत्र दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका । तस्यामतिशयेद्दैवं वर्तते पौरुषं समम् ॥ केचित्पुरुषकारेण केचिद्दैवेन कर्मणा । उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ दैवमानुषसद्भावे नार्या गर्भः प्रसिद्ध्यति । पुंसा सत्यपि संयोगे दैवाभावे न सिद्ध्यति ॥ न हि दैवमुदासीनं कदाचिदपि मानवम् । अर्थानर्थफलं नेह संयुनक्त्यवशं हि तत् ॥ काकतालीयवद्दैवाद्दृष्ट्वापि निधिमग्रतः । न पौरुषाहते तेन निधिना युज्यते पुमान् ॥ इति । मत्स्यपुराणविष्णुधर्मोत्तरयोरपि, मनुरामावूचतुः । दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे । अत्र मे संशयो देव संशयच्छिद्भवांस्तथा ॥ मत्स्यपुष्करावूचतुः । स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥ येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम । पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ कर्मणा प्राप्यते लोके राजसस्य तथा फलम् । १ इत आरभ्य 'न पौरुषाहते' इत्यन्तानि पद्यानि मुद्रितमनु- पुस्तके नोपलभ्यन्ते । ४०