वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 310, कुल 490 में से
संदर्भ में पढ़ें३१४ वीरमित्रोदयस्य राजनीतिप्रकाशे कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् मार्गितव्यं फलं नरैः । दैवमेव न जानाति नरः पौरुषवर्जितः ॥ तस्माद्धि कालसंयुक्तं दैवं तु सफलं भवेत् । पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ॥ दैवं पुरुषकारश्च कालश्च मनुजेश्वर । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ कल्पतरौ तु— वर्षाकाले प्रदृश्यन्ते नैवाकाले कथञ्चन-इतिपाठः । तस्मात्सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः । विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥ नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्तालसान्दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्वृणुते नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम्॥ इति। श्रीरामायणेऽपि, यस्तु नारभते कार्यं नरो दैवपरायणः । क्षिप्रं भवति निर्द्रव्यः पलायनपरायणः ॥ तथा, विक्लवो हीनवीर्यो यः स दैवमनुवर्त्तते । अविक्लवस्तु तेजस्वी न दैवमनुवर्त्तते ॥ दैवं पुरुषकारेण यतते यः प्रवाधितुम् । न स दैवविपन्नार्थः कदाचिदवसीदति ॥ इति ।