भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

मन्त्रः । ३०७ श्रीरामायणेऽपि, त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषान् वदाम्यहम् ॥ मन्त्रिभिर्मन्त्रसंयुक्तैः समर्थैर्मन्त्रनिश्चये । मित्रैर्वातिसमानार्थैर्बान्धवैश्चातिवाहितैः ॥ समानार्थैः, समानप्रयोजनैः । मन्त्रिभिर्मन्त्रयित्वा यः कर्मारम्भे प्रवर्तते । तत्रैव कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ एकोऽर्थं विमृशत्येको धर्मे प्रकुरुते मतिम् । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ गुणदोषावानिश्चित्य त्यक्तधर्मव्यपाश्रयः । करिष्यामीत्युपेक्षेत यः कार्यं स नराधमः ॥ यथैव पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणां मन्त्रनियमस्तमाहुर्मन्त्रमुत्तमम् ॥ बह्व्यस्तु मतयो भूत्वा मन्त्रिणामर्थसिद्धये । पुनर्यत्रैकतां यान्ति स मन्त्रो मध्यमः स्मृतः ॥ अन्योन्यं मतिमास्थाय यत्र सम्प्रतिपद्यते । न चैकमत्ये श्लेषोऽस्ति स मन्त्रोऽधम उच्यते ॥ अर्थानर्थौ हि यत्रोभौ संशयश्च परीक्ष्यते । स मन्त्र इति विज्ञेयः शेषस्तु खलु विक्रमः ॥ इति । विष्णुधर्मोत्तरे, नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह । बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान् पृथक् पृथक् ॥ इति ।

३०८ वीरमित्रोदयस्य राजनीतिप्रकाशे एकः, स्वयम् । बहुभिः, त्र्यधिकैः । अत्र स्वस्यैकस्य मन्त्र- निषेधात्स्वभिन्नेनैकेन द्वाभ्यां वा सह मन्त्रः कार्यः । यदि बहु- भिः सह मन्त्रयेत् तदा पृथक् पृथगित्यर्थः । तेन मन्त्रः सुरक्षितो भवति । अत एव— याज्ञवल्क्यः, मन्त्रमूलमिदं राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथाऽस्य न विदुः कर्मणामाफलोदयात् ॥ इति । मन्त्रमूलानां कर्मणामाफलोदयात्परेभ्यो मन्त्रं सुरक्षितं कुर्यात् । मनुरपि, यस्य मन्त्रं न जानन्ति समागत्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ इति । अग्निपुराणेऽपि, गुप्तमन्त्रो भवेद्राजा आपदोऽगुप्तमन्त्रतः । मदः प्रमादः कामश्च सुप्तप्रलपितानि च ॥ भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्योऽवमतास्तथा । इति । मत्स्यपुराणेऽपि, बहुभिर्मन्त्रयेन्मन्त्रं राजा कामं पृथक् पृथक् । मन्त्रिणामपि नो कुर्यान्मन्त्रिमन्त्रप्रकाशनम् ॥ क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् । निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा ॥ भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् । एकस्यैव महीभर्तुर्भूयःकार्यविनिश्चये ॥ ब्राह्मणान् पर्युपासीत त्रयीशास्त्रसुनिश्चितान् । नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥ इति ।

मन्त्रः । ३०९ विष्णुधर्मोत्तरेऽपि, राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम । तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥ कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः । नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥ मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः । कर्त्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥ मन्त्रवत्साधितो मन्त्रः सङ्घातानां सुखावहः । मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥ न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा । भवतीह महीभर्तुः सदा भार्गवनन्दन ॥ इति । मन्त्रे जडादीनां निषेधमाह — मनुः, जडमूकन्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्ग्यान्मन्त्रकाले प्रसेधयेत् ॥ जडो, बुद्धिहीनः । तैर्यग्योनाः, शुकसारिकादयः । वयोऽतिगा, अतिवृद्धाः । म्लेच्छः, अव्यक्तवाक् । क्लीब इति क्वचित्पाठः । भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादतो भवेत् ॥ इति । आदतः, शङ्कितः । श्रीरामायणे, अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः ।

३१० वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः । ये हितोदयमुत्सृज्य विपरीतोपसेविनः ॥ अहितं हि हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवेक्ष्या मन्त्रबाह्यास्ते कर्तव्याः कृतदूषणाः ॥ विनाशाय स्वभर्तुर्हि संहताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ इति निषिद्धान्तरमुक्तम्— महाभारते, मन्त्रभेदस्य यत्प्राज्ञो द्वाराणीमानि कल्पयेत् । अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ मदं स्वप्नमवज्ञानमाकारं चात्मसम्भवम् । दुष्टामात्येषु विश्रम्भं दूतं चाकुशलं तथा ॥ इति । तथा विष्णुधर्मोत्तरे, न च मूर्खैर्न चानाप्तैस्तथा नाधार्मिकैर्नृपः । मन्त्रं तु स्वादितं कुर्याद्येन राष्ट्रे न धावति ॥ स्वादितम्, आस्वादितम् । न धावति, न प्रसरति । राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः । नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्तु मन्त्रवत् ॥ मन्त्रे सुरक्षिते सिद्धिः कथिता पृथिवीक्षिताम् । क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥ कृतान्येव विजानाति स राजा पृथिवीपतिः । इति । मन्त्रणयोग्या अमात्या उक्ता— महाभारते, मन्त्रनिश्चयतत्त्वज्ञाष्षाड्गुण्यगुणवेदिनः ।

मन्त्रः ३११ शक्तान् कुलोचितान् भक्ताननाक्षारितपूर्वकान् ॥ अनाक्षारितपूर्वकान्, अनपकृतपूर्वान् । नीतिज्ञान् व्यवहारज्ञानितिहासार्थकोविदान् ॥ इङ्गितज्ञानुपायज्ञान् शूरान् वीरान् कुलोद्गतान् । सर्वकार्येषु निपुणानिष्वस्त्रविधिपारगान् ॥ दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान् । अक्षुद्रान् क्षमिणः प्राज्ञाननागतविधायिनः ॥ आयत्यां प्रतिकारांस्तत्तदात्वे दृढनिश्चयान् । द्विषन्मित्राञ्युदासीनभावज्ञान् शंसितव्रतान् ॥ स्वभावगुप्तानचलानचलानिव भारत । धर्मशीलानकृपणांस्तथा सर्वोपधातिगान् ॥ उपधा, छद्म । धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः । येऽस्य राजधुरं वोढुं समर्थाः सद्गवा इव ॥ तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः । विद्यानां दर्शने यत्नमातिष्ठेद्भरतर्षभ ॥ इति । मन्त्रिभिर्यथा वक्तव्यं तदुक्तम्— श्रीरामायणे, यत्प्रियं च हितं चैव साधु धर्म्यं च सर्वशः । ब्रूयुस्तन्मन्त्रिणो वाक्यं मन्त्रमाणे विशेषतः ॥ प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम् । प्रियमेव हि वक्तव्यं हितमेव हि मन्त्रिणा ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ इति । मन्त्रोत्तरं स्वयमेकाकिना विचार्यमित्युक्तम्—

३१२ वीरमित्रोदयस्य राजनीतिप्रकाशे विष्णुधर्मोत्तरे, पृथक् च मन्त्रिभिर्मन्त्रः कृतो वै संहतैः पुनः । विचार्य आत्मना साधु पश्चात्तत्र समाश्रयेत् ॥ प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः । क्षिप्रं विनाशमायाति तडागमिव काजलम् ॥ आकारगूहनै राज्ञो मन्त्ररक्षा परा मता । आकारैरिङ्गितैः प्राज्ञा मन्त्रं चोहन्ति पण्डिताः ॥ सञ्चराणां च वैद्यानां मन्त्रिणां वचने रतः । राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ॥ इति । इति मन्त्रः । अथ पौरुषम् तत्र याज्ञवल्क्यः, दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता । तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ दैवं पौर्वदेहिकमिति सम्बन्धः । के१चिद्देवाद्धठात्केचित्केचित्पुरुषकारतः । सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिस्तु पौरुषम् ॥ यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ इति । मनुरपि, सर्वं कर्मेदमायत्तं विधाने दैवमानुषे । १ केचिद्देवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ इति विज्ञाने- श्वरसम्मतः पाठः ।

दैवपौरुषयोः पौरुषस्य श्रेष्ठत्वम् । ३१३ तत्र दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका । तस्यामतिशयेद्दैवं वर्तते पौरुषं समम् ॥ केचित्पुरुषकारेण केचिद्दैवेन कर्मणा । उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ दैवमानुषसद्भावे नार्या गर्भः प्रसिद्ध्यति । पुंसा सत्यपि संयोगे दैवाभावे न सिद्ध्यति ॥ न हि दैवमुदासीनं कदाचिदपि मानवम् । अर्थानर्थफलं नेह संयुनक्त्यवशं हि तत् ॥ काकतालीयवद्दैवाद्दृष्ट्वापि निधिमग्रतः । न पौरुषाहते तेन निधिना युज्यते पुमान् ॥ इति । मत्स्यपुराणविष्णुधर्मोत्तरयोरपि, मनुरामावूचतुः । दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे । अत्र मे संशयो देव संशयच्छिद्भवांस्तथा ॥ मत्स्यपुष्करावूचतुः । स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥ येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम । पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ कर्मणा प्राप्यते लोके राजसस्य तथा फलम् । १ इत आरभ्य 'न पौरुषाहते' इत्यन्तानि पद्यानि मुद्रितमनु- पुस्तके नोपलभ्यन्ते । ४०

३१४ वीरमित्रोदयस्य राजनीतिप्रकाशे कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् मार्गितव्यं फलं नरैः । दैवमेव न जानाति नरः पौरुषवर्जितः ॥ तस्माद्धि कालसंयुक्तं दैवं तु सफलं भवेत् । पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ॥ दैवं पुरुषकारश्च कालश्च मनुजेश्वर । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ कल्पतरौ तु— वर्षाकाले प्रदृश्यन्ते नैवाकाले कथञ्चन-इतिपाठः । तस्मात्सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः । विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥ नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्तालसान्दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्वृणुते नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम्॥ इति। श्रीरामायणेऽपि, यस्तु नारभते कार्यं नरो दैवपरायणः । क्षिप्रं भवति निर्द्रव्यः पलायनपरायणः ॥ तथा, विक्लवो हीनवीर्यो यः स दैवमनुवर्त्तते । अविक्लवस्तु तेजस्वी न दैवमनुवर्त्तते ॥ दैवं पुरुषकारेण यतते यः प्रवाधितुम् । न स दैवविपन्नार्थः कदाचिदवसीदति ॥ इति ।

राजपुत्रस्य रक्षा । ३१५

दैवस्य नामान्तराण्याह— व्यासः, विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्म दैवम् । भाग्यानि पुण्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥ इति । द्वयोः स्वरूपमाह— स एव, दैवमात्मकृतं विद्यात्कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ इति । इति पौरुषम् । अथ राजपुत्ररक्षा । तत्र मत्स्यपुराणे, राजन् पुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता । आचार्यश्चापि कर्त्तव्यो नित्ययुक्तैश्च रक्षिभिः ॥ धर्मकामार्थशास्त्राणि धनुर्वेदं च शिक्षयेत् । रथे च कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥ शिल्पानि शिक्षयेच्चैनं नाप्तैर्भिन्द्या प्रियं वदेत् । शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥ न चास्य सङ्गो दातव्यः क्रुद्धलुब्धावमानितैः । तथा च विनयेदेनं यथा यौवनगो मुखे ॥ इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात् । यौवनगः, प्राप्तयौवनः । मुखे, आदौ । गुणाधानमशक्यं तु यस्य कर्तुं स्वभावतः ॥ बन्धनं तस्य कर्त्तव्यं गुप्तदेशे शुभान्वितम् । गुप्तदेश इत्यनेन दुष्टप्रवेशनिषेधः । शुभान्वितमित्यनेन शा-

३१६ वीरमित्रोदयस्य राजनीतिप्रकाशे शरीरदुःखनिषेधः, अवश्यापेक्षितस्नानभोजनवस्त्रताम्बूलादिदानं बोध्यते । सुखान्वित इति पाठे देशविशेषणं तत् । अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ इति । एवं विनीतस्वाधिकारसमर्पणे प्रकार उक्तः — तत्रैव, अधिकारेषु सर्वेषु विनीतं विनियोजयेत् । आदौ स्वल्पे ततः पश्चात् क्रमेण च महत्स्वपि ॥ इति । पुत्रविनयस्य फलमुक्तम्— महाभारते, नैव स्वैररिभिर्वापि ग्रस्यते पुत्रवान्नृपः । तस्माद्राजा सदा पुत्रं संरक्षेच्छिक्षयीत च ॥ अमात्यैरात्मसदृशै राजपुत्रस्य रक्षणम् । चारैश्च विविधोपायैः प्रविधेयं पृथग्विधैः ॥ इति । इति राजपुत्ररक्षा । अथ सन्ध्यादिचिन्ता । तत्र मन्त्रिण इत्यनुवृत्तौ— मनुः, तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ तैः, मन्त्रिभिः। चिन्तयेत्, राजेति शेषः। सन्धिः, पणबन्धः । विग्रहः, वैर्यवस्कन्दः। स्थानं, सैन्यकोशपुरराष्ट्रभेदेन चतुर्विधम्। समुदयः, कृषिव्रजवनगुल्मस्थानवणिक्पशुशुल्कदण्डादिः। गुप्तिः, राष्ट्रादिरक्षा । लब्धप्रशमनं, देवताश्रमविद्यावतां धार्मिका- णां दानमानसम्मानयोगः । अत्र सामान्यं सन्धिविग्रहमित्यु-

पादानात्सामान्यतः सन्धिविग्रहचिन्ता । विशेषतस्तु षाड्गुण्य- प्रकरणे वक्ष्यते । मध्यन्दिने चे १ रात्रौ वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा ॥ परस्पराविरुद्धानां तेषां च समुपार्जनम् । कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ तेषां, धर्मार्थकामानां बहुधा विरोधवताम् । समुपार्जनम्, सम्यगविरोधेन उपार्जनमुत्पादनम् । दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ प्रणिधयः, चाराः । कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च यत्नतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ अष्टविधं कर्म उशनसोक्तम्— आदाने च विसर्गे च तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्धौ तथा युक्त आत्मशुद्धौ तथैव च । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥ इति । आदानं, करादिग्रहणम् । विसर्गः, पारितोषिकदानम् । प्रेषः, प्रेषणं भृत्यादीनाम् । अर्थवचनं,द्रव्यार्जनोपायः । अनुव- चनमिति क्वचित्पाठः । अनुवचनं, कार्यसन्देहे राजाज्ञा । दण्ड- {ः, शास्त्रोक्तदण्डप्रणयनम् । आत्मशुद्धिः, प्रायश्चित्तम् । दण्डशुद्ध्योः समायुकस्तेनाष्टगणिको नृपः। इति क्वचित्पाठः। १ ऽर्धरात्रे इति मुद्रितमनौ पाठः ।

३१८ वीरमित्रोदयस्य राजनीतिप्रकाशे

मेधातिथिस्तु-अकृतारम्भः, कृतानुष्ठानम्, अनुष्ठितविशेष- णं, सामादयश्चत्वारः, एतदष्टविधं कर्माह । पञ्चवर्गः, पञ्चप्रका- राणां चराणां समूहः । पञ्चप्रकारा यथा, श्रद्धेयदेशविशेषशि- ल्पिभाषादिविदो जनाः । तथा, कुब्जवामनकिरातमूकबधि- रजडान्धादिच्छद्मिनः । तथा, नटनर्तकगायनादयः । तथा, श्रम- णादयः । प्रचेताः पञ्चवर्गमन्यथाह— सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥ इति । सिद्धिः, कार्यसिद्धिः । अपरागो, विरागः । मन्त्रिपुरोहि-

१ कुल्लूकभट्टीये तु—'कापटिकोदास्थितगृहपतिवैदेहिकताप- सव्यञ्जनात्मकं पञ्चविधं चारवर्गशब्दवाच्यं तत्त्वतश्चिन्तये- त् । तत्र परमर्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात्काप- टिकः, तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्, यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति । प्रव्रज्यारूढप- तित उदास्थितः, तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं कृ- त्वा रहसि राजा पूर्ववद्ब्रूयात्, बहुत्पत्तिकमठे स्थापयेत्प्रचुरसस्यो- त्पत्तिकं भूम्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत्, स चान्येषामपि प्रव्र- जितानां राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् । कर्ष- कः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदु- क्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्ति- र्वैदेहिकव्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वा- णिज्यं कारयेत् । मुण्डो जडिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽ- पि कचिदाश्रमे वसन् बहुमुण्डजटिलान्तरे कपटशिष्यगणवृतो गुप्तराजोपकाल्पितवृत्तिस्तापस्यं कुर्यात्, मासद्विमासान्तरितं प्रका- शं बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकाल्पितमाहारं कल्प- येत्, शिष्याश्चास्यातीतानागतज्ञानं ख्यापयेयुः, ते च बहुलोक- वेष्टनमासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्यं च पृच्छन्ति अन्यस्य कुक्रियादिकं च कथयन्ति' इत्येवं पञ्च प्रकारा दर्शिताः ।

द्वादशराजमण्डलम् । ३१९ तसेनापतियुवराजदौवारिकादीनामनुरागविरागौ चारादिभ्यो बोद्धव्यावित्यर्थः । मनुः, उपेतारमुपायं च सर्वोपायांश्च कृत्स्नशः । एतत्त्रयं समाश्रित्य प्रयतेतात्मसिद्धये ॥ इति । उपेतारम्, उपायप्रयोक्तारमात्मानम् । उपेयम्, उपाय- साध्यं शत्रुम् । इति सन्ध्यादिचिन्ता । अथ द्वादशराजमण्डलम् । विष्णुधर्मोत्तरे, राम उवाच । किन्नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः । राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता ॥ पुष्कर उवाच । सप्ताङ्गस्य तु राज्यस्य भाव्यं युक्तेन भूभृता । एतावदेव कर्त्तव्यं राज्ञा तन्त्रं भृगूत्तम ॥ इति । सप्ताङ्गान्युक्तानि— तत्रैव, · साम दानं तथा दुर्गं कोशो दण्डस्तथैव च । मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ इति । मनुः, सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥ प्रकृतीनाम्, अङ्गानाम् । व्यसनं, व्यसनकारणम्, दोषव- दिति शेषः ।

३२० वीरमित्रोदयस्य राजनीतिप्रकाशे सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ॥ तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते । येन यत्साध्यते कार्यं तत्तस्मिञ्छ्रेष्ठमुच्यते ॥ इति । विष्णुधर्मोत्तरे तु विशेषः । सप्ताङ्गस्यास्य राज्यस्य विघ्नकर्तॄन् विवासयेत् । अहितान् घातयेद्राजा क्षिप्रमेवाविचारयन् ॥ सप्ताङ्गस्य तु राज्यस्य वृद्धिः कार्या स्वमण्डले । मण्डलेषु च सर्वेषु कषणीया महीक्षिता ॥ इति । कषणीयाः, परीक्षणीयाः, अमात्यादय इति शेषः । मण्ड- लस्य द्वादश प्रकृतीराह— मनुः, मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ एताः प्रकृतयो मूलं मण्डलस्य समासतः । एतस्मिन् राजमण्डल इमाश्चतस्रो राजप्रकृतयो भवन्ति विजिगीषुररिर्मध्यम उदासीन इति । विजेतुमभ्युद्यतो विजि- गीषुः । अरिस्तु त्रिविधः—सहजः कृत्रिमः स्वभूम्यनन्तर इति । मध्यमः, अरिविजिगीष्वोरसंहतयोर्निग्रहे समर्थः । तदुक्तम्— अखिलो मण्डलार्थस्तु यस्मिन् ज्ञेयः स मध्यमः । इति । अखिलः, अर्थाद्विजिगीषुयातव्ययोः । मण्डलार्थः, मण्डल- प्रयोजनं, यस्मिन् स मध्यमो ज्ञेयः । उदासीनः, अरिविजिगीषु- मध्यमानामसंहतानां निग्रहसमर्थः । तदुक्तम्— विकृष्टेऽध्वन्यनायत्त उदासीनो बलान्वितः । इति । विकृष्टेऽध्वनि, अरिमित्रापेक्षया विप्रकृष्टे स्थले । अनायत्त:,

द्वादशराजमण्डलम् । ३२१ त्रयाणामप्यनधीनः । मध्यमोदासीनयोर्लक्षणे विष्णुधर्मोत्तरे स्पष्टमभिधास्येते । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ विजिगीषुमित्रमरिमित्रं विजिगीषुमित्रमित्रमरिमित्रमित्रं चेति अन्याश्चतस्रः प्रकृतयः पूर्वतः। यस्यां दिश्यरिः सैव पूर्वा। पार्ष्णि- ग्राहः, आक्रन्दः, पार्ष्णिग्राहासारः, आक्रन्दासारश्चेति चतस्रः प्रकृतयः पश्चात् इत्यष्टौ, आद्याश्चतस्र इति द्वादश। तथा चोक्तम्- विष्णुधर्मोत्तरे, अधिकृत्याभियोज्यं तु तत्रापि शृणु कल्पनाम् । अभियोज्यः स्मृतः शत्रुस्तस्यापि च प्रतीक्षिता ॥ तस्य, अरेः । प्रतीक्षिता, सेवकः । तदुक्तम्- मनुना, अनन्तरमरिं विद्यादरिसेविनमेव च । इति । तत्परस्तु सुहृज्ज्ञेयो रिपुमित्रमतः परम् । स्वमित्रमित्रं तत्पश्चान्मित्रमित्रं रिपोस्तथा ॥ एतत्पुरस्तात्कथितं पश्चादपि निबोध मे । पार्ष्णिग्राहः स्थितः पश्चात्ततस्त्वाक्रन्द उच्यते । आसारस्तु ततोऽप्यन्यस्त्वाक्रन्दासार उच्यते ॥ आसारः, पार्ष्णिग्राहासारः । जिगीषोः शत्रुयुक्तस्य वियुक्तस्य तथा द्विज । निग्रहानुग्रहे शक्तो मध्यमः परिकीर्तितः ॥ निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् । उदासीनः स कथितो बलवान् पृथिवीपतिः ॥ एतावदेव ते प्रोक्तं राम द्वादशराजकम् । नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव । ४१

३२२ वीरमित्रोदयस्य राजनीतिप्रकाशे नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ॥ सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा । सामर्थ्ययोगात् कारणात् । त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तरकृत्रिमाः । पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥ अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः । पार्ष्णिग्राहो भवेद्राजा शत्रुमित्राभियोगिनः ॥ पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् । मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥ मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम् । शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि ॥ प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् । नान्यथा पृथिवी जेतुं शक्या राम जिगीषुणा ॥ महाभारते, विजिगीषोररिमित्रमरेर्मित्रमतः परम् । मित्रमित्रं शत्रुमित्रमित्रं ज्ञेयं पुरःसरम् ॥ पार्ष्णिग्राहस्तथाक्रन्दः पार्ष्ण्यासारश्च पृष्ठतः । आक्रन्दासार शांतं च ज्ञेयं मण्डलचिन्तकैः ॥ पार्ष्णिग्राहाभिसारं च पार्ष्णिग्राहं च विग्रहे । राजाक्रन्दाभिसारेण तथाऽऽक्रन्देन वर्द्धयेत् ॥ वर्द्धयेत्, छेदयेत् । विरोधयेच्छत्रुमित्रं मित्रमित्रमरेस्तथा । मित्रेण मित्रमित्रेण मध्यमत्वाभिवाञ्छकः ॥ मन्त्रप्रभूत्साहशक्तीः पालयेद्बलवान्नृपः । अत्र यद्यपि मध्यमोदासीनौ नोक्तौ तथापि मन्वाद्येकवा-

द्वादशराजमण्डलम् । ३२३ क्यतयात्रापि तौ बोद्धयौ । कल्पतरुस्तु-'विजिगीषुमित्रं, वि- जिगीषुमित्रमित्रम्, अरिमित्रम्, अरिमित्रमित्रं, मध्यममित्रं मध्य- ममित्रमित्रम्, उदासीनमित्रम्, उदासीनमित्रमित्रं चेत्यष्टौ, प्रकृ- ताश्चतस्रः प्रकृतय इति द्वादश' इत्याह । एतेषां भेदानाह— मनुः, अमात्यराष्ट्रदुर्गाथैदण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः॥(अ०७श्लो० १५७) विजिगीषुः, विजिगीष्वमात्यादयः पञ्च एवं षट् । एवमन्ये एकादश माण्डलिकाः, एषाममात्यादयः प्रत्येकं पञ्च पञ्चेति द्विसप्ततिर्भवन्ति । असाध्यमरिमाह— स एव, प्राज्ञं कुलीनं दातारं शूरं दक्षं तथैव च । कृतज्ञं शक्तिमन्तं च कष्टमाहुररिं बुधाः ॥(अ०७श्लो०२१०) इति। आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥ (अ०७ श्लो० २११) तान्सर्वानभिसन्दध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ (अ० ७ श्लो० १५८) अभिसन्दध्यात्, वशीकुर्यात् । विजिगीषुर्धर्मेण परान् ज- येदित्युकम्— १ अत्र 'उदासीन गुणानाह स एव'इत्यपेक्षितं त्रुटितमिव भाति । २ बहुप्रदत्वम् 'स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः। ३ अत्रापि 'तेषां वशीकारोपायामाह स एव' इत्यपेक्षितम् । एत्प- द्यस्थतच्छब्देन पूर्वोक्तद्विसप्ततिप्रकारराजमण्डलस्य परामर्शात् तदनन्तरमेवास्य पद्यस्य विद्यमानत्वात् ।

३२४ वीरमित्रोदयस्य राजनीतिप्रकाशे विष्णुधर्मोत्तरे, यथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत् । जिगीषुधर्मविजयी तथा लोकं वशं नयेत् ॥ यः स्यादधर्मविजयी तस्मादुद्विजते जनः । प्राप्यापि वसुधां कृत्स्नां न चिरं श्रियमश्नुते ॥ धर्मेण राज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्च तथा परत्र । धर्मेण लब्ध्वा वसुधां जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति ॥ इति। इति द्वादशराजमण्डलम् । अथ षाड्गुण्यम्। तत्र याज्ञवल्क्यः, सन्धि च विग्रहं यानमासनं संश्रयं तथा । द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ इति ॥ मनुः, सन्धिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ आसनं चैव यानं च सन्धिं विग्रहमेव च । कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ सन्धिः, हस्त्यश्वादिदानादिना परस्परमुपकर्त्तव्यमित्यादि- व्यवस्था । तदुक्तम्- पणबन्धः स्मृतः सन्धिः-इति । विग्रहो विरोधः । तदुक्तम्- अपकारस्तु विग्रहः । इति । यानं, स्वबलेन शत्रुं प्रति गमनम् । तदुक्तम्- जिगीषोः शत्रुविषये यानं यात्रऽभिधीयते । इति ।

षाड्गुण्यलक्षणम् । ३२५ आसनं, विग्रहमुपेक्ष्य स्वदेशेऽवस्थितिः । तदुक्तम्- विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते । इति । द्वैधीभावः, स्वबलस्य द्विधाकरणम् । तदुक्तम्- बलार्द्धेन प्रयाणं तु द्वैधीभाव स उच्यते । इति । संश्रयः, परपीडितस्य प्रवलराजान्तराश्रयणम् । तदुक्तम्- उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः । सन्ध्यादयो द्विविधाः । तदुक्तम्- मनुना, सन्धिं च द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्वैधं संश्रयमेव च ॥ तत्र सन्धिर्द्विविधो यथा-आवाभ्यां राजान्तरं प्रति यानं कर्त्तव्यमिति क्रियमाण एकः, त्वमत्र याह्यहमन्यत्र यास्यामी- ति द्वितीयः। एतावपि प्रत्येकं द्विविधौ तात्कालिकफलवत्त्वोत्त- रकालीनफलवत्त्वाभ्याम् । तदुक्तम्- तेनैव, समानयानकर्मा च विपरीतस्तथैव च । तदात्वायांतसंयुक्तः संन्धिज्ञेयो द्विलक्षणः ॥ इति । विग्रहो द्विविधः-स्वकार्यार्थं मार्गशीर्षादिकालेऽकाले वा कृतः स्वयङ्कृत एकः, मित्रस्यापकारे केनचित्कृते तद्रक्षार्थ- मपरः । तदुक्तम्- तेनैव, स्वयङ्कृतश्च कार्यार्थमकाले काल एव च । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ इति । यानं द्विविधम्-बलवत एकाकिनो मित्रसहितस्य वा । तदुक्तम्- तेनैव,

३२६ वीरमित्रोदयस्य राजनीतिप्रकाशे

एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ इति । आसनं द्विविधम्-क्षीणबलस्य मित्ररक्षार्थं सबलस्य वा। तदुक्तम्- तेनैव, क्षीणस्य चैव क्रमशौ दैवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ इति । द्वैधं द्विविधम्-दुर्गदेशेऽर्द्धबलेन राजावस्थानम्, अर्द्धबलेन सेनापतिप्रयाणं, वैपरीत्येन वावस्थानं गमनं च । तदुक्तम्- बलस्य स्वामिनो वापि स्थितिः कार्यस्य सिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ इति । स्थितिः, द्विधाभूय स्थितिः । द्विधास्थितेर्द्वैधशरीरान्तर्गत- त्वात् । संश्रयो द्विविधः-अपहृतार्थस्यादानार्थः, अमुकमय- माश्रित इति भाविपीडानिवृत्त्यर्थश्च । तदुक्तम्- तेनैव, अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ इति । ते च कदा केन च कर्त्तव्या इत्यपेक्षायामाह- मनुः, यदाऽधिगच्छेदायतयामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥ आयत्याम्, उत्तरकाले । आधिक्यं, बलाधिक्यम् । तदा- त्वे, सम्प्रति । स च समेन बलीयसा वा कार्यः । तदुक्तम्- समेन सन्धिरन्वेष्यो हीनेन च बलीयसा । इति । स्वयं हीनेन सता समेन सह बलीयसा वा सह सन्धिरन्वेष्यः। मनुः