भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 319, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 319

द्वादशराजमण्डलम् । ३२३ क्यतयात्रापि तौ बोद्धयौ । कल्पतरुस्तु-'विजिगीषुमित्रं, वि- जिगीषुमित्रमित्रम्, अरिमित्रम्, अरिमित्रमित्रं, मध्यममित्रं मध्य- ममित्रमित्रम्, उदासीनमित्रम्, उदासीनमित्रमित्रं चेत्यष्टौ, प्रकृ- ताश्चतस्रः प्रकृतय इति द्वादश' इत्याह । एतेषां भेदानाह— मनुः, अमात्यराष्ट्रदुर्गाथैदण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः॥(अ०७श्लो० १५७) विजिगीषुः, विजिगीष्वमात्यादयः पञ्च एवं षट् । एवमन्ये एकादश माण्डलिकाः, एषाममात्यादयः प्रत्येकं पञ्च पञ्चेति द्विसप्ततिर्भवन्ति । असाध्यमरिमाह— स एव, प्राज्ञं कुलीनं दातारं शूरं दक्षं तथैव च । कृतज्ञं शक्तिमन्तं च कष्टमाहुररिं बुधाः ॥(अ०७श्लो०२१०) इति। आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥ (अ०७ श्लो० २११) तान्सर्वानभिसन्दध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ (अ० ७ श्लो० १५८) अभिसन्दध्यात्, वशीकुर्यात् । विजिगीषुर्धर्मेण परान् ज- येदित्युकम्— १ अत्र 'उदासीन गुणानाह स एव'इत्यपेक्षितं त्रुटितमिव भाति । २ बहुप्रदत्वम् 'स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः। ३ अत्रापि 'तेषां वशीकारोपायामाह स एव' इत्यपेक्षितम् । एत्प- द्यस्थतच्छब्देन पूर्वोक्तद्विसप्ततिप्रकारराजमण्डलस्य परामर्शात् तदनन्तरमेवास्य पद्यस्य विद्यमानत्वात् ।