वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 317, कुल 490 में से
संदर्भ में पढ़ेंद्वादशराजमण्डलम् । ३२१ त्रयाणामप्यनधीनः । मध्यमोदासीनयोर्लक्षणे विष्णुधर्मोत्तरे स्पष्टमभिधास्येते । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ विजिगीषुमित्रमरिमित्रं विजिगीषुमित्रमित्रमरिमित्रमित्रं चेति अन्याश्चतस्रः प्रकृतयः पूर्वतः। यस्यां दिश्यरिः सैव पूर्वा। पार्ष्णि- ग्राहः, आक्रन्दः, पार्ष्णिग्राहासारः, आक्रन्दासारश्चेति चतस्रः प्रकृतयः पश्चात् इत्यष्टौ, आद्याश्चतस्र इति द्वादश। तथा चोक्तम्- विष्णुधर्मोत्तरे, अधिकृत्याभियोज्यं तु तत्रापि शृणु कल्पनाम् । अभियोज्यः स्मृतः शत्रुस्तस्यापि च प्रतीक्षिता ॥ तस्य, अरेः । प्रतीक्षिता, सेवकः । तदुक्तम्- मनुना, अनन्तरमरिं विद्यादरिसेविनमेव च । इति । तत्परस्तु सुहृज्ज्ञेयो रिपुमित्रमतः परम् । स्वमित्रमित्रं तत्पश्चान्मित्रमित्रं रिपोस्तथा ॥ एतत्पुरस्तात्कथितं पश्चादपि निबोध मे । पार्ष्णिग्राहः स्थितः पश्चात्ततस्त्वाक्रन्द उच्यते । आसारस्तु ततोऽप्यन्यस्त्वाक्रन्दासार उच्यते ॥ आसारः, पार्ष्णिग्राहासारः । जिगीषोः शत्रुयुक्तस्य वियुक्तस्य तथा द्विज । निग्रहानुग्रहे शक्तो मध्यमः परिकीर्तितः ॥ निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् । उदासीनः स कथितो बलवान् पृथिवीपतिः ॥ एतावदेव ते प्रोक्तं राम द्वादशराजकम् । नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव । ४१