भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 473, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 473

प्रकीर्णके महाभारतीयविदुरोक्तनीतयः । कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ स्थाने, यथास्थितत्वे । दण्डोऽत्र सैन्यम् । कोशदेशसै- यथावस्थितिवृद्धिक्षयेषु यः प्रमाणं परिमाणमियत्तां न ज- स राज्ये नावतिष्ठते राज्यभ्रष्टो भवतीत्यर्थः । यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् । श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ असांप्रतं, नीतिविरुद्धम् । भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् । लोभाभिपाती ग्रसते नानुबन्धमपेक्षते ॥ “बडिशं मत्स्यवेधनम्” इत्यमरः । अनुबन्धम्, अनु प- श्चाद् बन्धं बन्धनम् । यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ आद्यम्, अदनीयं भोक्तव्यमित्यर्थः । वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ यस्तु पक्वमुपादत्ते काले परिणतं फलम् । फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ अङ्गारकारको यथा समूलं वृक्षमुत्पाट्य तत्राग्निं दत्त्वा

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 473, कुल 490 में से · BharatKosha