भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 474, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 474

४७८ वीरमित्रोदयस्य राजनीतिप्रकाशे अङ्गारान् करोति तथा न कुर्यादितिभावः । किन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः । इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ अनारभ्या भवन्त्यर्था केचिन्नित्यं तथाऽगताः । कृतः पुरुषकारो हि भवेत्तेषु निरर्थकः ॥ के चित्कदाचित् अनारभ्याः । के चिदर्था नित्यं सर्वदैव तथाऽगताः अनारभ्याः । तेषु कृतः पुरुषकारः पुरुषप्रयत्नः निरर्थको भवेत् । कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ऋजु पश्यति यः सर्वं चक्षुषा प्रपिबन्निव । आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः । अपक्वः पक्वसङ्काशो न स शीर्येत कर्हिचित् ॥ सुपुष्पित इति । अफलः, अजनितपरकार्योत्पत्तिः सन्,सुपु- ष्पितः, सम्यक्तया दर्शिततत्कार्यारम्भप्रत्याशः, स्यात्, भवेत् । स्वकार्यानुरोधेन फलितः सम्पादितपरकार्यः सन् दुरारुहः परेषामधृष्यः स्यात् । अपक्वः अनिष्पादितसम्पूर्णफलः सन् पक्वसङ्काशो निष्पादितस्वप्रयोजनतया शीर्णो न भवेत् । चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ यस्मान्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । १ कर्मणा इत्यपि पाठः ।

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 474, कुल 490 में से · BharatKosha