वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 475, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतीयविदुरोक्तनीतयः । ४७९ वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । वसुधा वसुसम्पूर्णा वर्द्धते भूतिवर्द्धिनी ॥ अथ सन्त्यजतो धर्ममधर्ममनुतिष्ठतः । प्रतिसञ्चेष्टते भूमिरग्नौ चर्माहितं यथा ॥ प्रतिसञ्चेष्टते, सङ्कुचितफलवती भवति । अग्नावाहितं चर्म यथा सङ्कुचितं भवति तथा भवतीतिभावः । य एव यत्नः क्रियते परराष्ट्रविमर्दने । स एव यत्नः कर्त्तव्यः स्वराष्ट्रपरिपालने ॥ धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ न जहातीत्यत्रापि श्रियमित्यनुषज्यते । अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः । सञ्चिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ क्षेत्रपतितवल्लरीग्रहणं शिलं तदाहारवान् ऋषिः शिलाहारी । गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥ यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि । यच्च स्वयं नतं दारु न तत्सन्नमयन्त्यपि ॥ एतयोपमया धीरः सन्नमेत बलीयसे । इन्द्राय स प्रणमते नमते यो बलीयसे ॥