वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 476, कुल 490 में से
संदर्भ में पढ़ें४८० वीरमित्रोदयस्य राजनीतिप्रकाशे पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः । पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ विद्या, आत्मज्ञानम् । मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः । मानेन, मापनेन । मानहीनं स्थापितं धान्यं राक्षसा हरन्तीति लोके प्रवादाऽपि । अनुक्रमः, चलनम् । “अनध्वा वाजिनां ज- रा” इत्यत्राप्यभिहितम् । अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचैलतः ॥ कुचैलं, कुत्सितवस्त्रम्। सुवेषा हि स्त्रियो यतः सर्वोऽपि कामयते। न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये । सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ विद्यामदो धनमदस्तथैवाभिजनो मदः । मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ असन्तोऽभ्यर्चिताः सद्भिः कचित्कार्ये कदाचन । मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ गतिरात्मवतां सन्तः सन्त एव सतां गतिः । असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।