वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 477, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतीयविदुरोक्तनीतयः । ४८१ अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितं नार्थो न धनेन न बन्धुभिः ॥ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते । अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम् ॥ उत्तमानां तु मर्यानामवमानात्परं भयम् । अन्त्यानाम्, अधमानाम् । अवृत्तेः, जीवनोपायाभावाद्भयम् । ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुद्ध्यते ॥ ऐश्वर्यमदः पापिष्ठोऽत्यन्तं पतनहेतुर्येषु ते तथाविधाः । इन्द्रियैरिन्द्रियार्थेषु वर्त्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ योजितः पञ्चवर्गेण सहजेनात्मकर्षिणा । आपदस्तस्य वर्द्धन्ते शुक्लपक्ष इवोडुराट् ॥ अविजित्य य आत्मानममात्यान् विजिगीषते । अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥ आत्मानमेव प्रथमं द्वेषरूपेण यो जयेत् । ततोऽमात्यानममित्रांश्च न मोघं विजिगीषते ॥ यः पुरुषः प्रथममात्मानमेव मन एव द्वेषरूपेण द्विष्त्वे- न जयेत् । ततोऽमात्यान्स्वप्रधानपुरुषान् अमित्रांश्च मोघं नि- ६१