वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 478, कुल 490 में से
संदर्भ में पढ़ें४८२ वीरमित्रोदयस्य राजनीतिप्रकाशे र्थकं न विजिगीषते । मनसो जयाभावे तु मोघं विजिगीषत इति भावः । वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं वीरमत्यन्तं श्रीर्निषेवते ॥ रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । अविधेया इवादान्तं हयाः पथि कुसारथिम् ॥ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ धर्मार्थों यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः । आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ बन्धुरात्मात्मनस्तस्य येनैवात्माऽऽत्मना जितः । स एव नियतो बन्धुः स एव नियतो रिपुः ॥ क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ अपिहितौ, आच्छादितौ । समवेक्ष्येह धर्मार्थों सम्भारान् योऽधिगच्छति । स वै सम्भृतसम्भारः सततं सुखमेधते ॥ यः पश्चाभ्यन्तरान् शत्रूनविजित्य मनोमयान् । जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम् ॥