वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 479, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४८३ आभ्यन्तरान् पञ्च शत्रून, पञ्च ज्ञानेन्द्रियाणि । मनोमयान्, मनःप्रधानान् । अविजित्य, स्वस्वविषयाम- वणान् अकृत्वा । अन्यान् रिपून, बाह्यान् शत्रून् । दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः । इन्द्रियाणामनीशत्वाद् राजानो राज्यविभ्रमैः ॥ असन्त्यागात्पापकृतामपापांस्तुल्यो दोषः स्पृशते मिश्रभावात् । शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ अनसूयार्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । वाक्चैव गुप्तादानं च नैतान्यन्त्येषु भारत ॥ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥ वाक्संयमो हि नृपतेः सुदुष्करतमो मतः । अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः । वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥