भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४८३ आभ्यन्तरान् पञ्च शत्रून, पञ्च ज्ञानेन्द्रियाणि । मनोमयान्, मनःप्रधानान् । अविजित्य, स्वस्वविषयाम- वणान् अकृत्वा । अन्यान् रिपून, बाह्यान् शत्रून् । दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः । इन्द्रियाणामनीशत्वाद् राजानो राज्यविभ्रमैः ॥ असन्त्यागात्पापकृतामपापांस्तुल्यो दोषः स्पृशते मिश्रभावात् । शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ अनसूयार्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । वाक्चैव गुप्तादानं च नैतान्यन्त्येषु भारत ॥ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥ वाक्संयमो हि नृपतेः सुदुष्करतमो मतः । अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः । वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥

४८४ वीरमित्रोदयस्य राजनीतिप्रकाशे वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत्परेभ्यः॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते । अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ यावत्कीर्त्तिर्मनुष्यस्य पुण्या लोके प्रगीयते । तावत्स पुरुषव्याघ्रः स्वर्गलोके महीयते ॥ न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥ यथा यथा हि पुरुषः कल्याणे कुरुते मनः । तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥ नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्त्तमानम्। नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् । राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ सामुद्रिकं वणिजं चौरपूर्वं शलाकधूर्त्तं च चिकित्सकं च । अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकुर्वीत सप्त॥ सामुद्रिकं वणिजं, समुद्रव्यवहारकारिणं पोतवणिजम् । चौरपूर्वं, पूर्वं चौर्यवृत्त्या जीवन्तम् । शलाकधूर्त्तं, द्यूतकरम् । कुशीलवं, नटं चारणं वा । “चारणास्तु कुशीलवा” इत्यमरः । मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः । एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥ मीयतेऽनेनेति मानं कालः । तेन स्वस्वकाले कृतान्येतान्य- भयङ्कराणि । अयथाकृतानि अकालकृतानि भयङ्कराणीत्यर्थः ।

प्रकीर्णके महाभारतियविदुरोक्तनीतयः । ४८५ अगारदाही गरदः कुण्डाशी सोमविक्रयी । पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः ॥ अमृते जारजः कुण्डस्तदन्नभक्षकः कुण्डाशी । पर्वकारः, शरकर्त्ता । सूची, सूचयति पैशुन्यमाचरति स तथा । भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः । अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥ “भ्रूणोऽर्भके स्त्रैणगर्भे” इत्यमरः । तं हन्ति स तथा । गुरु- तल्पं गुरुपत्नी “तल्पं शय्यादृदारेषु” इत्यमरः । साऽस्त्यस्य ग- म्यत्वेन स गुर्वङ्गनागामीत्यर्थः । काकः, इतस्ततो भोजनकर्त्ता । स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मपाक्यपि । रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥ स्रुवप्रग्रहणः, ग्रामयाजक आभिचारिको वा । व्रात्यः, जा- तकर्मादिसंस्काररहितः । कीनं पापं तेनाशनाति स तथा । स्वयंहलधरो वा । आत्मपाकी, देवपित्रादीन् विहाय केवल- मात्मार्थं पाककर्त्ता । आत्मवानपीति पाठे आत्मश्लाघी । तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरःकृच्छ्रास्वापत्सु सुहृद्दारयश्च ॥ तृणोल्कया, तार्णेन वह्निना । जातरूपं, सुवर्णम् । जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः॥ श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्द्धते । दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ मङ्गलात्, पुण्यात् । अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥

४८६ वीरमित्रोदयस्य राजनीतिप्रकाशे एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य । राजा यदा संश्रयते मनुष्यं सर्वान् गुणानेव गुणो विभाति ॥ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि। चत्वार्येषामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः ॥ निदर्शनानि, नितरां दृश्यते यैस्तानि । यथा— यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः । दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥ एतानि चत्वारि सद्भिः सत्सङ्गत्या अन्ववेतानि प्राप्तानि । दमादीनि तु चत्वारि अनु लक्षीकृत्य सन्तः यान्ति तत्प्राप्त्यर्थं यतन्ते यत एतैर्विना सत्त्वमेव न भवति । इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा । अलोभ इति मार्गोऽयं धर्मस्याष्टाविधः स्मृतः ॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति ॥ न सा सभा यत्र वसन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम्॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥ रूपं, शरीरसौन्दर्यम् उज्ज्वलवेषता च । विद्या, अत्युत्कटा वेदशास्त्रादिः सभाचातुर्यादिश्च । कौल्यं, महाकुलप्रसूतत्वम् । चित्रभाष्यं, विचित्रं भाषणम् । संसर्गयोनयः, सेवादिसंसर्ग- स्य कारणानि । पापं कुर्वन् पापकीर्त्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्त्तिः पुण्यमत्यन्तमश्नुते ॥ तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः ।

प्रकीर्णके महाभारतियविदुरोक्तनीतयः । ४८७ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ पुण्यं कुर्वन् पुण्यकीर्त्तिः पुण्यं स्थानं स्म गच्छति । तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥ असूयको दन्दशूको निष्ठुरो वैरकृच्छठः । स कृच्छ्रं महदाप्नोति न चिरात्पापमाचरन् ॥ अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा । न कृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥ प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ दिवसेनैव तत्कुर्यात् येन रात्रौ सुखं वसेत् । अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् । यावज्जीवेन तत्कुर्याद्येनामुत्र सुखं वसेत् ॥ जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् । शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥ भार्यामिति यौवनेऽप्यस्या धर्मच्युतिर्न जातेति गतयौव- नां सतीं प्रशंसन्ति स्तुवन्ति न तु यौवनवतीं, यौवने धर्म- क्षतेः सम्भावितत्वादितिभावः । गतपारं, तपस्याया गतपारम् । तपस्यामध्ये ऐहिकसिद्धीनां विघ्नभूतानां सम्भावित्वात् । धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।

४८८ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ ऋषीणां च नदीनां च कुलानां च महात्मनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥ सुवर्णपुष्पं पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ बुद्धिश्रेष्ठानीत्यादि । कर्माणि बुद्धिमात्रेण राजसेवादायीनि मन्त्रित्वादीनि श्रेष्ठानि । बाहुबलेन तादृशानि धनुर्द्धरत्वादी- नि मध्यानि । जाङ्घिकत्वादीनि जघन्यानि अधमानि । भारवाहित्वादीन्यत्यधमानीत्यर्थः । आपद्धर्मे महाभारते, बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः । जवेन सन्धिं कुर्वीत पूर्व्वान् पूर्व्वान् विमोचयन् ॥ यो धर्मविजिगीषुः स्याद्बलवान् पापनिश्चयः । आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥ अपास्य राजधानीं वा तरेद्द्रव्येण वाऽऽपदम् । तद्भावयुक्तो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥ तद्भावो राजभावः । यास्तु कोशबलत्यागाच्छक्यास्तारितुमापदः । कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥ न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन । तथा,

अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते । तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ तथा, न च कश्चित्कृते कार्ये कर्तारं समवेक्षते । तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ कारयेत्, कुर्यात् । तथा, कारणात्प्रियतामेति द्वेष्यो भवति कारणात् । अर्थार्थी जीवलोकोऽयं न कश्चित्कस्य चित्प्रियः ॥ आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च । अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥ तथा, ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत । एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ॥ पूजिताः शुभकर्त्तारः पूजयेत्तान्नराधिपः । तथा, तत्रैव ब्रह्मदत्तोपाख्याने पूजन्या वाक्येषु । सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत् । क्षिप्रं स वध्यते मूढो न हि वैरं प्रशाम्यति ॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति ॥ कामं विश्वासयेदन्यान् परेषां च न विश्वसेत् । तथा, नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् । विश्वासाद्वध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम् ॥ तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि । ६२

४९० वीरमित्रोदयस्य राजनीतिप्रकाशे सान्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥ तथा, कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । छन्नं सन्तष्ठते वैरं गूढोऽग्निरिव सागरे ॥ न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम् । शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥ तथा, सदा न विश्वसेद्राजा पापं कृत्वेह कस्य चित् । अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥ दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् । उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥ दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् । सर्वस्य लोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति ॥ दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि । स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥ माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः । सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥ पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः । तस्मिन् मिथ्याविनीतो हि तिर्यग्गच्छति मानवः ॥ यस्तु रञ्जयते राजा पौरजानपदान् गुणैः । न तस्य भ्रंशते राज्यं स्वयं धर्मानुपालनात् ॥ नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः । अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥ प्रजा यस्य विवर्द्धन्ते सरसीव महोत्पलम् । स सर्वफलभाग्राजा स्वर्गलोके महीयते ॥

प्रकीर्णके महाभारतीयनीतयः । ४९१ बलिना विग्रहो राजन्न कदाचित्प्रशस्यते । बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम् ॥ तथा, वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः । श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ च वर्जयेत् ॥ सपत्नसंहिते कार्ये कृत्वा सन्धिं न विश्वसेत् । अपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥ शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् । नित्यशश्चोद्विजेत्तस्माद्गृहात्सर्पयुतादिव ॥ यथाबुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् । अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥ अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् । अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता ॥ वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः । प्राप्तकालं तु विज्ञाय भिन्द्याद्घटमिवाश्मनि ॥ तथा, नात्मच्छिद्रं रिपुर्विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥ पानमक्षास्तथा नार्यो मृगया गीतवादिते । एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ तथा, देशकालौ समासाद्य विक्रमेत विचक्षणः । देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥ दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।

४९२ वीरमित्रोदयस्य राजनीतिप्रकाशे स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः । आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्य चित् ॥ आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत् । विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥ भीतवत्संविधातव्यं यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्त्तव्यमभीतवत् ॥ योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् । स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते ॥ वा शब्द इवार्थे । ये सपत्नाः सपत्नानां सर्वांस्तानुपसान्त्वयेत् । आत्मनश्चापि बोद्धव्याश्चारा विनिहिताः परैः ॥ चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च । पाखण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥ उद्यानेषु विहारेषु प्रपास्वावसथेषु च । पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥ वेशेषु, वेश्याजनाश्रयेषु । विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना । अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ॥ अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् । भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥ अशङ्क्यं शङ्कानर्हम् पुत्रा वा यदि वा भ्राता पिता वा यदि वा अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।

प्रकीर्णके महाभारतीयानीतयः । ४९३ उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ॥ तथा, अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि । दुःखं तत्र न कर्त्तव्यं हन्यात्पूर्वापकारिणम् ॥ प्रहरिष्यन् प्रियं ब्रूयात्प्रहृत्यैव प्रियोत्तरम् । असिनापि शिरश्छित्त्वा शोचेत च रुदेत च ॥ निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया । लोकाराधनमित्येतत्कर्त्तव्यं भूतिमिच्छता ॥ इत्येवमादीनि नीतिशास्त्राणि सर्वथा शृणुयादिति शिवम् । प्रत्याशं परिवर्द्धतेऽर्थिजनतादैन्यान्धकारापहे श्रीमद्वीरमृगेन्द्रदानजलधिर्यद्दृक्चन्द्रोदये । राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते- ग्रन्थेऽस्मिन् खलु राजनीतिविषयः पूर्त्तिं प्रकाशोऽगमत् ॥ इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि- तचरणकमल— श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज— श्रीमन्मधुकरसाहसूनु— श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी- कविकासदिनकर— श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मज— श्रीपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीण— जगद्दारिद्यमहागजपारीन्द्रविद्वज्जनजीवातु— श्रीमान्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे राजनीतिप्रकाशः पूर्त्तिमगात् ।

The provided image is completely blank and contains no visible text, diagrams, or manuscript content to transcribe.