वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 59, कुल 490 में से
संदर्भ में पढ़ेंमण्डलं चतुरस्रं तद्वर्णिकैः समलङ्कृतम् ॥ तत्र भद्रासनं सम्यगर्चयेत्सुमनोरमम् । गङ्गातोयसमापूर्णस्वर्णकुम्भोदकैः सह ॥ दिग्विदिक्षु स्थितैः शुक्लगन्धमाल्याम्बरार्चितैः । शतौषधीमूलहेमरत्नद्वीजपल्लवैः ॥ मृत्तिकावृषशृङ्गं च गजदन्तं च रोचनम् । उत्पलं पद्मकं पद्ममुरारेणुककुङ्कुमम् ॥ राजसर्षपमुस्तं च देवदारुसमन्वितम् । देवस्यत्वेतिमन्त्रेण आयुःपुष्टियशस्करैः ॥ आभिषेकैर्वेदमन्त्रैः शुभलग्ने शुभान्विते । भद्रासनस्थे नृपतावभिषेकं तु कारयेत् ॥ नीराजनं च कर्त्तव्यं शङ्खवादित्रनिःस्वनैः । आशिषो वाचनं कृत्वा चार्चयेच्च सुरान् पितॄन् ॥ आयुधानि च पट्टं च विप्रान् गन्धादिनाऽर्चयेत् । ब्रूयात्प्रत्यङ्मुखो राजा नमामि त्वोद्धरेति च ॥ प्राच्यां त्वामभिषिञ्चन्तु वसवस्तेजसे श्रियै । याम्यायामभिषिञ्चन्तु त्वां रुद्रा विजयाय च ॥ आदित्या अभिषिञ्चन्तु प्रतीच्यां दिशि वृद्धये । विश्वेदेवास्तथोदीच्यामभिषिञ्चन्तु पुष्टये ॥ दिगीशास्त्वभिषिञ्चन्तु त्वां सदा विजयाय च । साम्राज्यमितिमन्त्रेण राजानं सम्यगर्चयेत् ॥ व्याघ्रचर्मण्यथासीनं नवालङ्कारभूषितम् । भृत्यचामरसंयुक्तं राजचिह्नसमन्वितम् ॥ पुरोहितश्च जुहुयात्सावित्र्याऽसौ प्रयत्नतः । उदुम्बरसमिद्भिश्च आज्येनाष्टोत्तरं शतम् ॥