वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 60, कुल 490 में से
संदर्भ में पढ़ें५८ वीरमित्रोदयस्य राजनीतिप्रकाशे विद्वत्पुरोहितामात्यवृद्धैर्बन्धुसमन्वितः । तदा सञ्चिन्त्य सप्ताङ्गं प्रजा धर्मेण पालयेत् ॥ एवं यः कुरुते सम्यक् स राजा वर्द्धते चिरम् ॥ इति । सामविधानब्राह्मणेऽपि, राजानमभिषेचयेत्तिष्येण श्रवणे- न वा। व्रीहियवैस्तिलमाषैर्दधिमधुसुमनोजात रूपैर्यशस्विनीभ्यो न- दीभ्यः समुद्राच्चोदकान्याहृत्योदुम्बरे भद्रासने वैयाघ्रे चर्मण्युत्त- रलोम्न्यासिनं जीवन्तीनां गवां शृङ्गकोशैरभिषिञ्चेद्भ्रातृव्य इ- ति रहस्येन । यमेवं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येते- त्येकवृषेणाभिषिञ्चेत् । अभिषेक्त्रे दद्याद्ग्रामवरं दासीशतं गो- सहस्रं तदधीनश्च भवेत् । इति । अस्यार्थ माधवाचार्य आह-पुरोहितो राजानमभिषेच- येत् अभिषिञ्चेत्, वक्ष्यमाणैः साधनैः । यद्यपि राजशब्दः अभिषेकसंस्कृतस्य क्षत्रियस्य वाचकस्तथापि भाविनीं संज्ञा- माश्रित्य “यूपं तक्षति” इत्यादिवत् अभिषेक्तव्यराजानमित्युप- चारप्रयोगः । अवेष्ट्यधिकरणे तु भाविसंज्ञां प्रत्याख्याय यूपं तक्षतीत्यनेन वैषम्यमुक्तम् । तिष्यः पुष्यः । व्रीह्या- दिजातरूपान्तैर्द्रव्यैर्मिश्रितैः । यशस्विनीभ्यः पावनत्वप्रयु- क्तख्यातियुक्ताभ्यो गङ्गातुङ्गभद्रादिभ्यो नदीभ्यः समुद्राच्चोद- कानि पृथक्पृथगाहृत्य तैः उदुम्बरसम्बन्धिनि भद्रासने चतु- ष्पदोपेते पर्यास्तृते व्याघ्रचर्मणि उपरिस्थितलोम्नि आसीनं जीवोपेतानां गवां शृङ्गाणि छित्त्वा तदग्रच्छिद्रनिःस्रुतैर्जलैर- भ्रातृव्य इति रहस्येन साम्ना, उदकानि शृङ्गकोशैरिति उभयत्र बहुवचननिर्देशात्पृथक् गङ्गाद्युदकैरभिषिञ्चेत् । पृथगाहरणस्या- पीदमेव प्रयोजनम् । कामनाभेदेन मन्त्रविशेषमाह-पुरोहितो यं राजानमेवं कामयेत कृत्स्नस्य भूमण्डलस्यैक एव राजा