वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 61, कुल 490 में से
संदर्भ में पढ़ेंराजयोग्यः पुरोहितः । ५९ स्यान्नास्य चक्रे भूमण्डलं केनचिदपि वैरिणा प्रतिहतं भवेदिति, तं रहस्यस्थाने एकवृषेणेतिसाम्नाऽभिषिञ्चेत् । अन्यत्प्रागुक्तमेव । राजा पुरोहितायोत्कृष्टं ग्रामं दासीशतं सहस्रं गाश्च दद्यात्तदधी- नश्च भवेत् । अत्र यादृशं पुरोहितं कुर्यात्तादृश उक्त— आथर्वणे, तस्मात्कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचा- चारयुक्तमलोलुपं व्रतनियमचारित्रवृत्तलक्षणगुणसम्पन्नं सन्धि- विग्रहचिकित्सकं माहेन्द्रजालभूतकर्मादिष्वभिविन्दकं जितस्था- नासनं हिमातपवर्षसहं ह्रीधृतिकर्मार्जवशमदयानशक्तिसम्पन्नं बृहस्पत्युशनसोः (कृतौ पारगं) स्थानाकृतिप्रमाणवर्णश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणुयाद्भूपतिरिति । विष्णुस्मृतौ, वेदेतिहासधर्मशास्त्रेषु कुशलं कुलीनमव्यङ्गं तपस्विनं च पुरो- हितं कुर्यात् । इति । गौतमे, ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसम्पन्नं न्यायवृत्तं तपस्विनम् । इति । आथर्वणपरिशिष्टे, तस्माद्गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान्नरेन्द्रः प्रियदर्शनं च॥ इति। याज्ञवल्क्ये, पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् । दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरो निहितं दानमानसतत्कारैरा-