वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 62, कुल 490 में से
संदर्भ में पढ़ें६० वीरमित्रोदयस्य राजनीतिप्रकाशे
त्मसम्बन्धिनं कुर्यात् । दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्यानुष्ठानादिभिरुदितैः शास्त्रोक्तैः उदितम् ऋद्ध- म् । दण्डनीत्याम् अर्थशास्त्रे । अथर्वाङ्गिरसे शान्त्यादिकर्मणि । यादृशो निषिद्धः पुरोहितस्तादृश उक्त— आथर्वणपरिशिष्टे, नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्वचित्कुर्यात्पुरोहितम् ॥ हीनाधिकाङ्गं पतितं विवर्णं स्तेयिनं जडम् । क्लीबमशक्तियुक्तं भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् । इति । तादृशस्य करणे फलान्यपि तत्रैवोक्तानि । हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेये त्वशक्ते च समस्तदोषाः क्लीवे विवर्णे नृपतिर्विनश्येत् ॥ भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः । विवर्णनेत्रे पतिते सुपुत्रानध्वर्युणा चैव निहन्ति पौत्रान् ॥ कृष्णे कोशक्षयं विद्याद्वक्ते वाहनसङ्क्षयः । पिङ्गलः पार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः ॥ बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । सभारः पङ्के हस्तीव सह तेनैव मज्जति ॥ अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः ॥ वधबन्धपरिक्लेशान् कोशवाहनसङ्क्षयम् । करोत्येतां च योऽवस्थां तपोयुक्तोऽपि सामगः ॥ अन्वयाकृतिसम्पन्नं तस्माद्भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम् ॥