विष्णु पुराण

विष्णु पुराण
Vishnu Purana
महर्षि वेदव्यास द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press Gorakhpur (उद्गम)
DevanagariHindipublished558 पृष्ठ
पृष्ठ 270, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 270
अ० ५ ] * चतुर्थ अंश * २५९
| भूतानां नेत्रेष्ववतारितः ॥ १८ ॥ ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ १९ ॥<br>अपुत्रस्य च भूपुजः शरीरमराजकभीरवो मुनयोऽरण्या ममन्थुः ॥ २० ॥ तत्र च कुमारो जज्ञे ॥ २१ ॥ जननाज्जनकसंज्ञां चावाप ॥ २२ ॥ अभूद्विदेहोऽस्य पितेति वैदेहः, मथनान्मिथिरिति ॥ २३ ॥ तस्योदावसुः पुत्रोऽभवत् ॥ २४ ॥ उदावसोर्नन्दिवर्द्धनस्ततस्सुकेतुः तस्माद्देवरात-स्ततश्च बृहदुक्थः तस्य च महावीर्यस्तस्यापि सुधृतिः ॥ २५ ॥ ततश्च धृष्टकेतुरजायत ॥ २६ ॥ धृष्टकेतोर्हर्यश्वस्तस्य च मनुर्मनोः प्रतीकः, तस्मात्कृतरथस्तस्य देवमीढः, तस्य च विबुधो विबुधस्य महाद्युतिस्ततश्च कृतरातः, ततो महारोमा तस्य सुवर्णरोमा तत्पुत्रो ह्रस्वरोमा ह्रस्वरोम्णस्सीरध्वजोऽभवत् ॥ २७ ॥ तस्य पुत्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ २८ ॥<br>सीरध्वजस्य भ्राता सांकाश्य़ाधिपतिः कुशध्वजनामासीत् ॥ २९ ॥ सीरध्वजस्यापत्यं भानुमान् भानुमतश्शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे ॥ ३० ॥ तस्यापि शतध्वजः, ततः कृतिः कृतेरञ्जनः, तत्पुत्रः कुरुजित् ततोऽरिष्टनेमिः तस्माच्छ्रुतायुः श्रुतायुषः सुपार्श्वः तस्मात्सृञ्जयः, ततः क्षेमावी क्षेमाविनोऽनेनाः तस्माद्भौमरथः, तस्य सत्यरथः, तस्मादुपगुरुपगोरुपगुप्तः, तत्पुत्रः स्वागतस्तस्य च स्वानन्दः, तस्माच्च सुवर्चाः, तस्य च सुपार्श्वः, तस्यापि सुभाषः, तस्य सुश्रुतः तस्मात्सुश्रुताज्जयः तस्य पुत्रो विजयो विजयस्य ऋतः, ऋतात्सुनयः सुनयाद्वीत-हव्यः तस्माद्धृतिर्धृतेर्बहुलाश्वः, तस्य पुत्रः कृतिः ॥ ३१ ॥ कृतौ सन्तिष्ठतेऽयं जनकवंशः ॥ ३२ ॥ इत्येते मैथिलाः ॥ ३३ ॥ प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥ ३४ ॥ | राजाके ऐसा कहनेपर देवताओने उनको समस्त जीवोंके नेत्रोंमें अवस्थित कर दिया ॥ १८ ॥ तभीसे प्राणी निमेषोन्मेष (पलक खोलना-मूँदना) करने लगे हैं ॥ १९ ॥<br>तदनन्तर अराजकताके भयसे मुनिजनोंने उस पुत्रहीन राजाके शरीरको अरणि (शमीदण्ड)-से मँथा ॥ २० ॥ उससे एक कुमार उत्पन्न हुआ जो जन्म लेनेके कारण 'जनक' कहलाया ॥ २१-२२ ॥ इसके पिता विदेह थे इसलिये यह 'वैदेह' कहलाता है और मन्थनसे उत्पन्न होनेके कारण 'मिथि' भी कहा जाता है ॥ २३ ॥ उसके उदावसु नामक पुत्र हुआ ॥ २४ ॥ उदावसुके नन्दिवर्द्धन, नन्दिवर्द्धनके सुकेतु, सुकेतुके देवरात, देवरातके बृहदुक्थ, बृहदुक्थके महावीर्य, महावीर्यके सुधृति, सुधृतिके धृष्टकेतु, धृष्टकेतुके हर्यश्व, हर्यश्वके मनु, मनुके प्रतीक, प्रतीकके कृतरथ, कृतरथके देवमीढ, देवमीढके विबुध, विबुधके महाद्युति, महाद्युतिके कृतरात, कृतरातके महारोमा, महारोमाके सुवर्णरोमा, सुवर्णरोमाके ह्रस्वरोमा और ह्रस्वरोमाके सीरध्वज नामक पुत्र हुआ ॥ २५-२७ ॥ वह पुत्रकी कामनासे यज्ञभूमिको जोत रहा था। इसी समय हलके अग्र भागमें उसके सीता नामकी कन्या उत्पन्न हुई ॥ २८ ॥<br>सीरध्वजका भाई सांकाश्यनरेश कुशध्वज था ॥ २९ ॥ सीरध्वजके भानुमान् नामक पुत्र हुआ। भानुमान्के शतद्युम्न, शतद्युम्नके शुचि, शुचिके ऊर्जनामा, ऊर्जनामाके शतध्वज, शतध्वजके कृति, कृतिके अंजन, अंजनके कुरुजित्, कुरुजित्के अरिष्टनेमि, अरिष्टनेमिके श्रुतायु, श्रुतायुके सुपार्श्व, सुपार्श्वके सृंजय, सृंजयके क्षेमावी, क्षेमावीके अनेना, अनेनाके भौमरथ, भौमरथके सत्यरथ, सत्यरथके उपगु, उपगुके उपगुप्त, उपगुप्तके स्वागत, स्वागतके स्वानन्द, स्वानन्दके सुवर्चा, सुवर्चाके सुपार्श्व, सुपार्श्वके सुभाष, सुभाषके सुश्रुत, सुश्रुतके जय, जयके विजय, विजयके ऋत, ऋतके सुनय, सुनयके वीतहव्य, वीतहव्यके धृति, धृतिके बहुलाश्व और बहुलाश्वके कृति नामक पुत्र हुआ ॥ ३०-३१ ॥ कृतिमें ही इस जनकवंशकी समाप्ति हो जाती है ॥ ३२ ॥ ये ही मैथिलभूपालगण हैं ॥ ३३ ॥ प्रायः ये सभी राजालोग आत्मविद्याको आश्रय देनेवाले होते हैं ॥ ३४ ॥ |
इति श्रीविष्णुपुराणे चतुर्थेऽंशे पञ्चमोऽध्यायः ॥ ५ ॥