भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 101, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 101

पतितास्तत्र शोभन्ते रणाजिरम् ॥ १३ ॥ बभ्रुः सादिभिर्हीना हयाः सूर्यहयोपमाः ॥ मृताश्च शतशस्तत्र दृश्यन्ते विकृताननाः ॥ १४ ॥ आगुल्फमवसीदन्ति दैत्याः शोणितकर्दमे ॥ रथिभिर्निहता नागा नागैश्च निहता रथाः ॥ १५ ॥ हयाश्च विद्धा नागैस्तु सादिभिः कुञ्जरा हताः ॥ रथात्सादिगजारोहेर्निहताश्च पदातयः ॥१६॥ पतिता महता सादी कुञ्जरे रथ एव च ॥ ततः प्रावर्तत नदी रुधिरौघतरङ्गिणी ॥१७॥ अस्त्रग्राहा धनुर्मीना चक्रकूर्मा महास्वना ॥ छत्रहंसा नागवती केशशैवलशाद्वला ॥ १८ ॥ दैत्यौघोपपला रौद्रा तथा भीरुभयावहा ॥ बाहुसर्पा महावर्ता शूराणां हर्षवर्दिनी ॥ १९ ॥ अपारगम्या पत्तीनां फेनपुञ्जसमाकुला ॥ तस्मिन्युद्धे महाघोरे तुमुले लोमहर्षेणे ॥ २० ॥ आकीर्णा वसुधा भाति वदनैः कमलोपमैः ॥ विवृतेश्च महादंष्ट्रैर्दानवानां महात्मनाम् ॥ २१ ॥ बाहुभिश्चाङ्गदैश्चैव रक्तचन्दनरूषितैः ॥ हस्तिहस्तोपमैश्चापि सरत्नैश्च महाधनैः ॥ २२ ॥ तालवृन्तैस्तथा छत्रैश्चामरैर्यष्टिभिस्तथा ॥ मुकुटैः कुण्डलैश्चैव शुभ्रैश्च मणिविभूषितैः ॥२३॥ ततस्ते दानवाः क्रुद्धाः स्वयुद्धेन दिवौकसः ॥ अभिद्रवन्ति देवेशं सहस्राक्षं पुरंदरम् ॥२४॥ दैत्यानां पततां दृष्ट्वा प्रह्लादं देवसूदनम् ॥ प्रत्युद्ययौ गजेना- ऽऽढौ देवराजो महाबलः ॥ २५ ॥ हुताशनोऽपि नमुचिमनुहादं तथा शशी ॥ वरुणश्च तथा बाणं यमो देवस्तथा बलिम् ॥२६॥ हिरण्यकशिपुं रुद्रो वायुर्वृत्रासुरं रणे ॥ विरूपाक्षं तथा शंसुंर्हिरण्याक्षं धनेश्वरः ॥२७॥ अन्ये च दैत्याः शतशः संयुक्ता देवतागणैः ॥ द्वन्द्वयुद्धसहस्रेषु तेष्वेवंवर्त- त्सुदानवैः ॥ २८ ॥ प्रायशो विजिता देवा यद्युभूत्वा दिशो दश ॥ दानवाश्च जयं लब्ध्वा देवाननु ययुर्बलात् ॥२९॥ ते भग्नास्त्रिदशाः सर्वे दानवै- श्चापिपीडिताः ॥ त्राणार्थमथ संप्राप्ता नरनारायणाश्रमम् ॥ ३० ॥ देवानानमभयं दत्त्वा नरनारायणौ तदा ॥ शंखचक्रायुधधरो युद्धाय समव- स्थितौ ॥ ३१ ॥ नरनारायणौ दृष्ट्वा तत्क्षुब्धं दैत्यसागरम् ॥ सर्वायुधविसर्गेण तयोर्युद्धं व्यवस्थितम् ॥ ३२ ॥ गजाभ्राजालसंहन्नं शरधारौघ- वर्षणम् ॥ चलन्खङ्गलतार्वद्युद्देत्यदुर्द्दिनमाबभौ ॥ ३३ ॥ ततः शरै रुक्मविभूषितैस्तैः सुनिशतैर्द्वन्डलकर्णिकैर्वणैः ॥ बिभेद गात्राणि नरो रिपूणां जहार शीर्षाणि सकुण्डलानि ॥ ३४ ॥ नारायणोप्युत्तमवीर्यतोजाश्चक्रेण चक्रे दितिनन्दनानाम् ॥ विदारयामास महानुभावस्तस्मिन्त्रणे घोरतरे तदानीम् ॥ ३५ ॥ वीर्यं तयोरप्रतिमं निरीक्ष्य ते दानवा भग्ननिकेतयोधाः ॥ हतामृता जीवितमात्रदेशा वेगेन याता वरुणाधिवासम् ॥ ३६ ॥


१ 'ह्रथिता निहतो नागो नागेन निहतो रथी ॥ हयश्च छिन्ना नागेन सादिना कुञ्जरो हतः ॥ इति ख० । २ 'हयैः प्राप्ते रथिभिश्च' इति ख० । ३ 'महाक्षत्रैः' इति ख० । ४ 'अभिद्रवन् हि' इति ख० । ५ 'शार्ङ्गचक्रायुधधरौ' इति ख० । ६ 'हन्तुम्' इति ख० । ७ 'निवृत्ता' इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 101, कुल 1001 में से · BharatKosha