विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 113, कुल 1001 में से
संदर्भ में पढ़ेंप्रवावृधे तदा हरिः ॥ २१ ॥ उदङ्मुखैर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ॥ अक्रामंस्तु हरेर्लोकान्दानवाः शस्त्रपाणयः ॥ २२ ॥ अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः ॥ गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ २३ ॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ आखुदुर्दुरवक्त्राश्च घोर- वक्त्रमुखास्तथा ॥ २४ ॥ मार्जारशशवक्त्राश्च हंसकान्ताननास्तथा ॥ गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५ ॥ सिंहव्याघ्रशृगालानां द्वीपिनांनरपक्षिणाम् ॥ हस्त्यश्वगोखरोष्ट्राणां भुजगानां समानानाः ॥ २६॥ प्रतिगृह्णञ्जले प्राप्य व्यवर्धत तदा हरिः ॥ उदङ्मुखैर्दानवघोरैर्वीक्ष्यमाण इवाम्बुदः ॥ २७ ॥ विक्रमन्तं हरिं लोकान्दानवाः शस्त्रपाणयः ॥ मत्स्यकच्छपवक्त्राणां दुर्हगाणां समानानाः ॥ २८ ॥ स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ॥ पिङ्गेक्षणा विवृतास्या नानाबाहुशिरोधराः ॥ २९ ॥ स्थूलग्रानसाश्चिपिटा महाहुङ्कारपालिनः ॥ चीनांशुकोत्तरासंगाः केचित्कृष्णाजिनाम्बराः ॥ ३० ॥ भुजङ्गाभरणाश्चान्ये केचित्सुकुटसूपिताः ॥ ३१ ॥ सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१ ॥ धनुर्बाणधराश्चान्ये तथा तोमरपाणयः ॥ खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२ ॥ शतघ्नीचक्रहस्ताश्च गदामुशलपाणयः ॥ अश्मग्रन्थाद्युधोपेता भिण्डिपालयुधास्तथा ॥ ३३ ॥ शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४ ॥ क्रममाणं हृषीकेशमावृण्वन्त सर्वशः ॥ सं तान्ममर्द सर्वात्मा तनुसुखान्दैत्यदानवान् ॥ ३५ ॥ सरसीव महापह्रान्माहस्तीव दानवान् ॥ प्रमथ्य सर्वान्दैत्येयान्हस्तपादतलैस्ततः ॥३६ ॥ रूपं कृत्वा महाभीममाजहारोऽऽशु मेदिनीम्॥ तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७ ॥ परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ॥ ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८ ॥ ततोपि क्रममाणस्य पद्मा द्वै व्यवस्थितौ ॥ जित्वा स मेदिनीं कृत्स्त्रां हत्वा चासुरपुंगवान् ॥ ३९ ॥ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ स्वं रूपञ्च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४० ॥ श्रीभगवानुवाच ॥ यद्ब्रूहि त्वयिदत्तस्मिन्सत्यितामे महासुर ॥ मया निविष्टपादेन मापियंत्वं वसुन्धरा ॥ ४१ ॥ प्रथमं तु पदं जातं नौर्बन्धेयशिखरे मम ॥ द्वितीयं मरुशिखरे तृतीयं नाऽभवक्वचित् ॥ ४२ ॥ तन्मे वय दैत्येन्द्र यन्मयाप्तं प्रतिग्रहम्॥ बलिरुवाच ॥ यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३ ॥ तावती ते न संपूर्णा देवदेव क्रमत्रयम् ॥ न कृतं यत्त्वया देव कृतस्तन्मे महेश्वर ॥ ४४ ॥ न च तद्विद्यते देव तथैवाऽन्यस्य कस्यचित् ॥ श्रीभगवानुवाच ॥ न मे त्वयाप्रयुक्ते मे दानवेन्द्र यथाश्रुतम् ॥ ४५ ॥ दूतलं नाम पातालं वस
१ 'पिङ्गलाक्षा विवृताक्षा' इति ख० । २ 'महावृक्षप्रहरणा' इति ख० । ३ 'मतान्' इति ख० । ४ 'स्वञ्च रूपं समासाद्य' इति ख० । ५ 'तावती वसुधा पूर्णा' इति ख० ।