भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 115, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 115

गानां सूर्यस्तेजस्विनां तथा ॥ ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका ॥ १६ ॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ॥ कल्पं मन्व न्तरैशाश्च मनवश्च चतुर्दश ॥ १७ ॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ॥ संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥ मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ॥ शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥१८॥ कारणानां वधः प्रोक्तो गुरुर्हन्तां तथाऽसिमर्जित् ॥ पातालानां सुतलञ्च समुद्राणां पयोदधिः ॥ १९ ॥ जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ॥ मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २० ॥ हिमालयः स्थावराणां जाह्नवी सरितां तथा ॥ पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१ ॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥ ऋषीणाञ्च भृगुर्देवो देवर्षीणां च नारदः ॥ २२॥ तथा ब्रह्मर्षीणाञ्च अंगिराः परिकीर्तितः ॥ विद्याधराणां सर्व्वेषो देवोऽह्वोगन्दस्तथा ॥२३॥ कुंबरः किन्नराणां च सर्पाणामथ वासुकिः ॥ प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४ ॥ उच्चैःश्रवमश्वानां धेनूनां चैव कामधुक् ॥ ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५ ॥ आयुधानां तथा वज्रो नराणाञ्च नराधिपः ॥ क्षमा क्षमावतां द्वेवो ह्यद्भुईन्दिनतमपि ॥ २६ ॥ धर्मो विरुद्धः कामश्च तथा धर्मभृतां नृणाम् ॥ धर्म्मो धर्म्मभृतां दैवस्तपस्विनामास् ॥२७॥ यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ॥ वेदानां साम वेदश्च अंशुनां ज्योतिषां पतिः ॥ २८॥ गायत्री सर्व्वमंत्राणां वाचः प्रवदतां तथा ॥ अक्षराणामकारश्च वृन्त्राणाञ्च तथा धनुः॥२९॥ अध्यात्मविद्या विद्यानां कवीनामुशना कविः ॥ चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३० ॥ ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ॥ कीर्त्तिः श्रीर्वा क् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१ ॥ आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ॥ स्कन्दः सेनाप्रणेतृणां सङ्घश्च द्या वताम ॥ ३२ ॥ जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ॥ अश्वत्थः सर्ववृक्षाणामपिर्षीनां तथा यवः ॥ ३३ ॥ मृत्युः स एव प्रिपतामुद्भवश्च भविष्यताम् ॥ झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४ ॥ मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ॥ धृतिर्भूमी रसस्तेजस्तेजश्चैव हुताशने ॥ ३५ ॥ वायुः स्पृशिणूनां च खञ्च शब्दगुणस्तथा ॥ एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६ ॥ एकांशेन भृगुश्रेष्ठ तस्यांशतितयं दिवि ॥ देवांश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव ॥ ३७॥ चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज ॥ ज्ञाता ज्ञेयतया ध्याता ध्येयश्चासो जनार्दनः ॥ ३८ ॥ यत्नो यथा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ॥ अन्नमन्नाद एवोक्तः


१ 'पयोनिधिः' इति ख० । २ 'स्रोतसाम्' इति ख० । ३ 'धर्म्मोविरुद्धकामश्च तथा काम्यमनां नृणाम्' इति ख० । ४ 'पश्यामि' इति ख० । ५ 'ज्ञाता ज्ञेयं तथा ज्ञानं त्रयं चोक्तो जनार्दनः' इति ख० ।