भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 117, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 117

... यिता ॥ आराध्य केशवं देवं प्राप्यन्ते नाऽत्र संशयः ॥ १९ ॥ हतप्रत्यर्थिमातङ्गो रुधिराप्लुतभूतले ॥ संग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ ॥ २० ॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः ॥ अकलङ्कशशाङ्काभा वदना नीलमूर्धजाः ॥ २१ ॥ गम्यन्ति नरं स्वर्गे देवरामा मनोहराः ॥ सकृदर्चितो देवो हेलया वा नमस्कृतः ॥ २२ ॥ वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम् ॥ कुपितमपि धर्मेण विज्ञेयं तत्प्रसादजम् ॥ २३ ॥ रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ॥ अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४ ॥ रत्नपर्यङ्कशायिनो महाभोगाश्च भोगिनः ॥ वीज्यन्ते सह रामाभिः केशवस्मरणदपि ॥ २५ ॥ सौगान्धिके वने रम्ये कैलासपर्वते द्विज ॥ यदृच्छा विहरन्तिस्म तत्याहुः कुसुमं नराः ॥ २६ ॥ रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ॥ क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७ ॥ चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ॥ धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८ ॥ तस्मात्तवाऽहं वक्ष्यामि यद्यदा चरतः सदा ॥ पुरुषस्येह भगवान्सुतोषस्तुष्यते हरिः ॥ २९ ॥ पूज्यः स नित्यं वरदो महात्मा स्तव्यः स नित्यं जगदेकवन्द्यः ॥ ध्येयः स नित्यं सकलापहर्ता चैवानुकम्प्यं तव राम गुह्यम् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्कर गीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ ॥ शङ्कर उवाच ॥ अहिंसा सत्यवचनं दया भूतेष्वनुग्रहम् ॥ इत्येतानि सदा राम तस्य तुष्यन्ति केशवः ॥ १ ॥ मातापितृगुरूणाञ्च यः सम्यगिह वर्त्तते ॥ वर्जको मधुमांसस्य तस्य तुष्यति केशवः ॥ २ ॥ वराहमत्स्यमांसानि यो नात्ति भृगुनन्दन ॥ विरतो मद्यपानाच्च तस्य तुष्यति केशवः ॥ ३ ॥ न धारयति निर्माल्यमन्यदेवोद्भूतं तु यः ॥ भुंक्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः ॥ ४ ॥ अवैष्णवे देवभृतं निर्माल्यं यः प्रयच्छति ॥ नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥ ५ ॥ विभर्ति मूर्ध्नि निर्माल्यं केशवार्चोद्भूतं तु यः॥ अनिन्द्य न चाश्नाति तस्य तुष्यति केशवः ॥ ६॥ परपीड़ाकरं कर्म यस्य नास्ति महात्मनः॥ संविभागी च भूतानां तस्य तुष्यति केशवः ॥ ७ ॥ शृणुते सर्वधर्मांश्च सर्वान्देवान्नमस्यति ॥ अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ॥ ८ ॥ तीर्थोपवाससेवी च द्विजातिगणसेवकः ॥ पूजको विष्णुभक्तानां तस्य तुष्यति केशवः ॥ ९ ॥ पञ्चरात्रविदो मुख्यांस्तु संपूजयेत्सदा ॥ देववद्ब्राह्मणशार्दूल तस्य तुष्यति केशवः ॥ १० ॥ पितृदेवार्चनरतः स्वदारनिरतः सदा ॥ ऋतुकालाभिगामी च तस्य तुष्यति केशवः ॥ ११॥ नाम्नां सहस्रेण तथा यश्च


१ 'कैलासविखरे द्विज' इति ख० । २ 'क्रीडन्ति च सहस्राणि गन्धर्व्वैःसत्कथाश्रुतेः' इति ख० । ३ 'भक्तानाम्' इति ख० । ४ 'पञ्चरात्रविधानेन यो विष्णुं पूजयेत्सदा' इति ख० ।