विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 118, कुल 1001 में से
संदर्भ में पढ़ेंगायति तन्मनाः ॥ सततं कल्यमुत्थाय तस्य तुष्यति केशवः ॥ १२॥ पौरुषेण च सूक्तेन जपहोमादिकं सदा॥ यः करोत्यमितप्रज्ञस्तस्य तुष्यति केशवः ॥ १३ ॥ मित्रस्वामिगुरुद्रोहो यस्य नाऽस्ति महात्मनः ॥ परदाररतेच्छा न तस्य तुष्यति केशवः ॥ १४ ॥ गजा शाखोपदेशेन राज्यं यश्च प्रशास्ति ॥ राजधर्मरतिर्नित्यं तस्य तुष्यति केशवः॥ १५॥ या तु नारी पतिप्राणा पतिभक्ता पतिव्रता ॥ तस्याः सुतोषो भगवांस्तोपयामायाति केशवः॥ १६॥ अग्निहोत्रपरो विद्वान्यज्ञैर्नित्यमतन्द्रितः ॥ यस्तु तर्पयते देवांस्तस्य तुष्यति केशवः॥ १७॥ स्ववर्णधर्मस्थः पूजयन्मधुसूदनम् ॥ कालं नयति यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ १८॥ सोपवासस्तु पक्षान्ते द्वादश्यां वा भुङ्क्तम् ॥ वोधयति श्रवणैर्वा वा ततोयायान्तु वा पुनः ॥ सोपवासोऽर्चयति यस्तस्य तुष्यति केशवः ॥ १९ ॥ पुष्पं विना हरिं प्राप्य फलं रत्नं क्षुमां पि वा ॥ निवेदयति यः कृष्णे तस्य तुष्यति केशवः॥२०॥ कृष्णे पश्यति यत्सर्वं कृष्णं सर्वत्र पश्यति ॥ महात्मा बुद्धिसम्पन्नस्तस्य तुष्यति केशवः ॥ २१ ॥ तत्कथायाञ्च रमते तत्कथां यः करोति च ॥ तन्मनास्तद्गतप्राणस्तस्य तुष्यति केशवः ॥२२॥ सर्वभूतहिते युक्तः सर्वभूतहिते रतः ॥ सर्वभूतानुकम्पी च तस्य तुष्यति केशवः ॥ २३ ॥ अप्रणम्य क्रियां काञ्चित्तु नाऽऽरभते हरिम् ॥ असन्निधायशार्ङ्गस्य तुष्यति केशवः ॥ २४ ॥ नामसंकीर्तनं नित्यं श्रुत पुस्तकलनादिषु ॥ यः करोति महाभागस्तस्य तुष्यति केशवः ॥ २५ ॥ नैवं पत्रं फलं पुष्पं निवेद्य मधुसूदने ॥ पश्चाद्भुङ्क्ते स्वयं यश्च तस्य तुष्यति केशवः ॥ २६ आद्यपि च कपट्यां देवशपार्थं नरः ॥ न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ २७॥ द्वादश्यामुद्धृत्य निर्माल्यं छायां नाक्रामते च यः ॥ धूपानग्निभस्म च तथा तस्य तुष्यति केशवः ॥२८॥ दृष्ट्वा सम्पूजितामर्चां यश्च भक्त्याभिनन्दति ॥ मर्च्यं मंजर्जयेद्यन्तु तस्य तुष्यति केशवः ॥ २९ ॥ नित्यं संपूजयेद्यस्तु देवदेवञ्च भक्तितः ॥ यथाशक्त्या महाभाग तस्य तुष्यति केशवः ॥ ३० ॥ न गम विवि धैर्दानैर्न रत्नधनसञ्चयैः ॥ तोषमायाति देवेशो भक्त्या तुष्यति केशवः ॥ ३१ ॥ दानेसुयैश्च बहुप्रकारैर्गोभिर्वाप्यवामव्रतदर्शनैश्च ॥ तथा न तोपं भगवान्ययाति भक्त्या यथा तद्गतमानसानाम् ॥ ३२ ॥ एतावदुक्तं तव गूढं न देयमेतद्भुवि मत्स्यगाणाम् ॥ न तर्कशास्त्रानुकुलमानसानां नाऽवैष्णवानां न च नास्तिकानाम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भक्तिलक्षणो नामाष्टपञ्चाशत्त मोऽध्यायः ॥ ५८ ॥ श्रीराम उवाच ॥ उपांगिनेत् यंनेद्यं यंयं कोयं प्रयच्छति ॥ तदहं श्रोतुमिच्छामि गदन्तम् वृषभध्वज ॥ १ ॥ शंकर उवाच॥
१ 'पठताञ्चवेच्छा च' इति ख० । २ 'देव्यं' इति ख० । ३ 'नाम मन्त्रम् ' इति क० । ४ 'मेधयति' वा 'इति ग० ।