विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 119, कुल 1001 में से
संदर्भ में पढ़ेंपूजितः प्रयतः स्वान्तैः सोपवासैर्दिने रवेः॥ संवत्सरं महाभाग दीर्घमायुः प्रयच्छति ॥ २ ॥ सोमवारे महाभाग चारोग्यं संप्रयच्छति ॥ तथा भौमदिने राम वैश्वर्यं संप्रयच्छति ॥ ३ ॥ वासरे सोमपुत्रस्य सर्वान्कामान्प्रयच्छति ॥ अभीष्टांश्च तथा विद्यामाखण्डलगुरोर्दिने ॥ ४ ॥ सौभाग्यमतुलं लोके भार्गवार्हि प्रयच्छति ॥ तथा शनैश्चरस्याहि रिपून्र्सवान्व्यपोहति ॥ ५ ॥ कृत्तिकासु तथाऽभ्यर्च्य यज्ञानाप्नोत्यनुत्तमान् ॥ प्राजापत्ये तथाऽभ्यर्च्य प्रजां प्राप्नोति शोभनाम् ॥ ६ ॥ विन्दते ब्रह्मवर्चस्यं मृगशीर्षेऽर्चयन्हरिम् ॥ रौद्रकर्म त्वमाप्नोति सिद्धिं रौद्रे समर्चयन् ॥ ७ ॥ च्युतः स्थानमवाप्नोति पूजयानः पुनर्वसौ ॥ पुष्ये संपूजितो देवः पुष्टिंमग्र्यां प्रयच्छति ॥८॥ आश्लेषा यां तथोऽभ्यर्च्य श्रियं विन्दति मानवः ॥ पितृप्रसादमाप्नोति पित्र्ये संपूजयन्हरिम् ॥ ९ ॥ सौभाग्यं महदाप्नोति फाल्गुनीष्वर्चयंस्तथा ॥ तथैव चोत्तरायोगे गतिं विन्दति शोभनाम् ॥ १० ॥ १ हस्ते संपूजयन्देवं गजान्प्राप्नोत्यनुत्तमान् ॥ चित्रासु च तथाऽभ्यर्च्य वस्त्राण्याप्नोति मानवः ॥ ११ ॥ आध्ये समर्चयन्देवं रत्नभागी भवेन्नरः ॥ तथोत्तरास्वाषाढासु कीर्तिं प्राप्नोति शाश्वतीम् ॥ १२ ॥ सर्वान्कामानवाप्नोति श्रवणेऽभ्यर्चयन्हरिम् ॥ धनिष्ठासु तथा वित्तमारोग्यं वारुणे तथा ॥ १३ ॥ आजे पशूनवाप्नोति गावश्च तदनन्तरम् ॥ पौष्णे शीलमवाप्नोति चाश्वन्याम्रोति चाऽश्विनौ ॥ १४ ॥ दीर्घं जीवितमाप्नोति भरणीषु महाभुज ॥ प्रतिपद्यर्चयन्प्राप्नोति रूपं प्राप्नोत्यनुत्तमम् ॥ १५ ॥ सर्वान्कामान् वाप्नोति तृतीयायां समर्चयन् ॥ पञ्चैश्चतुर्थ्यामाप्नोति पञ्चम्यां श्रियमुत्तमाम् ॥ १६ ॥ षष्ठ्यां प्राप्नोत्यथाऽऽरोग्यं सप्तम्यां सुहृदस्तथा ॥ अष्टम्यां च तथा भृत्यान्नवम्यां च तथा यशः ॥ १७ ॥ कर्मसिद्धिमवाप्नोति दशम्यां पूजयन्हरिम् ॥ एकादश्यां प्रजायन्तः श्रीमान्ही स सदा भवेत् ॥ १८ ॥ अभीष्टां गतिमाप्नोति द्वादश्यां पूजयन्हरिम् ॥ त्रयोदश्यां पूजयानो रूपं प्राप्नोत्यनुत्तमम् ॥ १९ ॥ न दुर्गतिमवाप्नोति पूजयानश्चतुर्दशीम् ॥ सर्वान्कामानवाप्नोति पञ्चदश्यां महामुने ॥ २० ॥ इत्येतदुक्तं तव मानवानां काम्यं फलं सम्पुषुपोषितानाम् ॥ देवेश्वरं पूजयतां यथावत्परं पुराणं पुरुषं वरेण्यम् ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीशंकरगीतार्तूपवासफलो नामकोनषष्टितमोऽध्यायः ॥ ५९ ॥ राम उवाच ॥ उपवासाससमर्थानां किं स्यादेकसुपोषितम् ॥ महाफलं महादेवं तत्समाचक्ष्व पृच्छतः ॥ १ ॥
१ 'समभ्यर्च्य' इति ख० । २ 'हस्त्य्' इति ख० । ३ 'हस्ते संपूजयन्देवं राज्यं प्राप्नोत्यनुत्तमम्' इति ख० । ४ 'महानयन्' इति ख० । ५ 'प्राप्नोत्यनन्तरम्' इति ख० । ६ 'तथा मुने' इति ख० ।