विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 121, कुल 1001 में से
संदर्भ में पढ़ेंकारणं ॥२६॥ शुक्लपक्षे तिथिर्ज्ञेया यस्यामभ्युदितो रविः ॥ उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥ २६ ॥ यश्च वा युज्यते राम निशीथे शशिना सह ॥२७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासूपवासविधिर्नाम षष्टितमोऽध्यायः॥६०॥ राम उवाच ॥ तस्य मायाशरीरस्य विष्णोरिमिततेजसः ॥ प्राप्नुवन्ति कथं स्थानं नित्यमक्षय्यमव्ययम् ॥ १ ॥ शङ्कर उवाच ॥ अखण्डकारिणो राम विष्णोरमिततेजसः ॥ प्राप्नुवन्ति परं स्थानं नित्यमक्षय्यमव्ययम् ॥ २ ॥ राम उवाच ॥ अखण्डकारी भवति भगवन्कथं भवति शङ्कर ॥ एतन्मे संशयं ब्रूहि देवदेव वृषध्वज ॥ ३ ॥ शङ्कर उवाच ॥ पञ्चकालविधानज्ञस्तत्कर्मकरणे रतः ॥ अखण्डकारी भवति राम दानवनाशन ॥ ४ ॥ राम उवाच ॥ भगवन्पूज्य के कालाः कथं तेषां तथा विधिः ॥ एतन्मे देवदेवेश कौतूहलमुपावृदु ॥ ५ ॥ शङ्कर उवाच ॥ रामाभिगमनं पूर्वमुपादानमतः परम् ॥ इज्यास्वाध्यायकालौ च योगकालस्तथैव च ॥६॥ तेषां प्रत्येकशो वक्ष्ये विधिं ते भृगुनन्दन ॥ तन्निबोध महाभाग प्रयतेनान्तरात्मना ॥ ७॥ राम कल्पे समुत्थाय दन्तधावनपूर्वकम् ॥ स्नानं कृत्वा यथाशास्त्रं स्वाचान्तः सुसमाहितः ॥ ८ ॥ यश्चैव भगवन्मन्त्रं पठन्द्वैगृहं विशेत् ॥ प्रविश्याङ्गाम जानुभ्यां पाणिभ्यां शिरसा तथा ॥ ९ ॥ ॐकारं सनमस्कारं प्रयुज्य सुसमाहितः ॥ योगकालं तु सन्दध्याद्पाद्यादनन्तरम्॥ १०॥ रामाभिगमकालं तु तत्र मन्त्रं तथापयेत्॥ भगवतो बलेनेति वीर्येणैतेन तेजसा॥ ११॥ शुभकीर्तिततेजोयेन वेदिं प्रक्षालयेद्बुधः ॥ सौवर्णीं राजतीं ताम्रीं मृण्मयीमायसीं तथा॥ १२ ॥ शालिलां चन्दनजां वापि देवदारुमयामथा॥ शिंशापाक्षोटसरलकदम्बार्जुनजामथा॥ ॥ १३॥ साल्वाश्वकर्णजां राम स्वायोमेन तथैव च ॥ वामप्रवाणां प्रक्षाल्य पूर्णकुम्भांश्चावस्ततः॥ १४॥ कल्पनीयास्तु कलशाश्चत्वारो भृगुनन्दन॥ सौवर्णा राजतास्ताम्रा अथवापि ह रीतियाः॥ १५॥पाद्याचमनीयं च त्वर्घ्यं स्नानीयमेव च ॥ पाद्यात्पाद्यं तु दातव्यं स्नानीयात्स्नानमेव च॥ १६॥ तथाप्याचमनीयाद्धेयाचामनं भवेत् ॥दानं प्रणयनं प्रीतिविसर्गं विस्तरं तथा ॥ १७॥ तर्पणं चार्हणं चैव त्वर्घ्यादेतानि कारयेत् ॥ द्वादशाक्षरकं मन्त्रं ततो जप्त्वा समाहितः ॥ १८ ॥ ततः पवित्रमन्त्रेण वेदिमभ्युक्षयेद्विज ॥ आत्मानं च तथा भोगान्कुर्यान्यंग्राम्बुतयं ततः॥ १९॥ विद्या ज्ञानं ततः कर्म ब्रह्मचक्रं तथैव च ॥ मार्गेणञ्च कर्तव्यं नामाच्येकलशान्सदा ॥ २० ॥ पाणिमार्गं कूर्ममार्गं मधुमार्गं तथैव च ॥ उशीरमूलजं कूर्चं जीव गोपालसम्भवम् ॥२१॥ जीवश्च मरणं चापि कर्तव्यं भृगुनन्दन ॥ प्रतिस्नानं ततः कार्यं समानांनां क्रमाद्द्रवेत् ॥ २२ ॥ तथैव पादपीठानां प्रभवेन
१ 'अक्षमं' इति ख० । २ 'प्रत्यक्षतो' इति ख० । ३ 'महाबाहु' इति ख० । ४ इत आरम्य सार्धः श्लोकः बहुपुस्तके नास्ति । ५ ' आयासे ब' इति ख० । ६ ' समासानाम्' इति ख० । ७