भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 125, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 125

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ॥ ४१ ॥ प्रतिस्तस्यैवार्चिः प्राणस्तर्पणमर्हणम् ॥ ४१ ॥ निवेदनञ्चाचमनमथ्या मन्त्रनिर्णयः ॥ मन्त्रेण चार्हणान्तेन प्रदद्यादर्हणं पुनः ॥ ४२ ॥ तथैवाचमनान्तेन देयमाचमनं भवेत् ॥ प्राशनान्तेन मन्त्रेण तर्पणं विनिवेदयेत् ॥ ४३ ॥ प्रतिस्रहेषु मात्रासु पादुकासु च दर्पणे ॥ छत्रे च वालव्यजने तालवृन्ते तथैव च ॥ ४४ ॥ उपानत्सु तथा याने वाहनेषु भृगूत्तम ॥ अश्विध्वजेषु च तथा पताकासु च कीर्तिताः ॥४५॥ शेषाणां कामभोगानां नित्यं संकीर्तयेत्तु वै ॥ सर्वत्र प्रीणनं कार्यमेतावान्मन्त्रनिर्णयः ॥४६॥ देवानां पादपीठानां कलशानां तथैव च ॥ वह्नेस्थाससस्तानां च चतुर्द्ध विनिवर्तते ॥ ४७ ॥ कलशासनावहीनां संकरं तु न कारयेत् ॥ तथैव पदपीठानां तेषां चिह्नं च कारयेत् ॥ ४८ ॥ प्रापणे मधुपर्के च मात्रासु च भृगूत्तम ॥ सुमनस्सु सदा राम यत्नः कार्यः समर्चने<sup></sup> ॥ ४९ ॥ सौमनस्यं परं राम देवदेवं निवेदितम् ॥ यस्मात्तु वर्तते तस्मात्तस्माल्लोकाः सुमनसः सदा ॥ ५० ॥ मां त्रास्यति भयाद्घोरातस्मान्मात्रा प्रकीर्तिता ॥ प्रापयिष्यति च स्थाने नित्यं दुःखविवर्जिते ॥ ५१ ॥ यस्मात्तस्माद्धिराज्ञेषु प्रोक्ते प्रापणके सदा ॥ परं यत्परं राम मधुसंज्ञं तदुच्यते ॥ ५२ ॥ तदाप्यते यदा तेन मधुपर्कस्तदा स्मृतः ॥ इत्येवंविधानोऽसमुदीरितास्ते समावतो भार्गववंशचन्द्र ॥ अतः परं राम निबोध पुण्यं स्वाध्यायकालं गदतो ममाद्य ॥ ५३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु इज्याका लविधिर्नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ ॥ शङ्कर उवाच ॥ ॥ आदौ देशे तथा राम प्रयतः सुसमाहितः ॥ स्वाध्यायेनार्चयेद्देवं प्रयतेनान्तरात्मना ॥ १ ॥ तावत्कार्यं द्विजश्रेष्ठ स्वाध्यायं विधिवत्सदा ॥ यावदस्तं गतो राम सविता दीप्तदीधितिः ॥ २ ॥ ततस्त्वस्तं गते सूर्ये स्वाचान्तः सुसमाहितः ॥ प्रविश्य देवतावेश्म नैराज्यं कर्म कारयेत् ॥ ३ ॥ पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ॥ अर्च्यमाचमनीयं च दत्वा पाद्यं च भार्गव ॥ ४ ॥ स्थालोमालिक्रमेणैवद्यादन्तेष्वयाभिहितं ततः ॥ कर्तव्यमवयुगानान्तं प्रयतः सुसमाहितः ॥ ५ ॥ कृत्वालुयागं विधिवत्प्रावृत्य सुरमन्दिरम् ॥ स्वाध्यायस्याप्यनुसंधानं ततः कुर्यात्समाहितः ॥ ६ ॥ योगकालमुपादाय पश्चात्कुर्याद्विसर्जनम् ॥ कृत्वा विसर्जनं युक्तस्तिष्ठेदद्याममतन्द्रितः ॥७॥ योगानन्तरं स्वप्याद्देवं युक्त्य भार्गव ॥ स्वयं कालोऽपि सततं योगमभ्येदभिधीयते ॥८॥


१ 'समर्जने' इति क० ।