विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 131, कुल 1001 में से
संदर्भ में पढ़ेंअसि ॥ अनेन चापरत्नेन वैष्णवेन महाबल ॥ दैत्यान्संगरे हत्वा गत्वा च वरुणालयं ॥ १० ॥ पृष्टव्यो वरुणो देवस्त्वया धर्मभृतां वरः ॥ स पुत्र वरुणाद्धीमुं^१क्त्वा राम यथाविधि ॥ ११ ॥ आगच्छेद्या यथाकालं मत्समपं महाभुज ॥ एवमुक्तस्तदा रामः पित्रा धर्मभृतां वरः ॥ १२ ॥ पितरं मातरं भ्रातॄनभिवाद्य यथाविधि ॥ जगाम वरुणावासं रामो वैश्वानरद्युतिः ॥ १३ ॥ स प्रविश्य समुद्रं महादेवप्रसादातः ॥ ततोऽपश्यं नगरं रामो ददर्श पुरुषोत्तमम् ॥ १४ ॥ मनोऽभिरां स्फटिकाश्मचित्रं उपेन्द्रनागेन्द्रकुलं च ॥ विसर्पितं पन्नगदैत्यनाथैर्द्यावापृथिव्याशत संकुलं च ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० रामस्याश्मनगरदर्शनं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ मार्कण्डेय उवाच ॥ तस्मिन्पुरे रम्ये रत्नचित्रसभागतम् ॥ रत्नवासनगतं वीरं चारुकुण्डललोचनम् ॥ १ ॥ स्निग्धवैदूर्यसंकाशं शुक्लाम्बरविभूषितम् ॥ हार भारापिंततनुं चारुकेयूरधारिणम् ॥ २ ॥ प्रवालमणिमुक्ताढ्यं गम्भीरं भुजगाश्रयम् ॥ किरीटेनार्कसंशन्नं यादोगणसमाश्रयम् ॥ ३ ॥ आदित्य मुदकावासमंशभृतं पतिर्मूर्जितम् ॥ लोकनाथं महद्भूतं भक्तानामभयप्रदम् ॥ ४ ॥ विष्णोर्भागं विशालाक्षं विशालाक्षं महाभुजम् ॥ पूज्यमानं महाभागैर्जलैशैर्न्नागैस्तथा ॥ ५ ॥ दैत्यैश्च महाभागैर्भीमभीमपराक्रमैः ॥ सुन्दोपसुन्दशक्राक्षबाणरमरकण्टकैः ॥ ६ ॥ दृश्यग्रीवमहाभीमै र्वदृश्राश्र्वासुरान्तकैः [^१॥ भीमभीमाक्षनक्रविकटोत्कटमारणैः ॥ ७ ॥ अतिकायमहाकायभीमकायबलोद्धतैः ॥ नगैश्च सुमहाकायैर्नागैश्चापी महाभोगैर् गदिंदैतैः ॥ ८ ॥ नागराज्ञा वासुकिना शङ्खेन करुणार तथा ॥ (महापद्मेन पद्मेन कर्कोटकेनचैजयैः ॥ ९ ॥ ऐरावतेन नागेन तक्षकेण बलेन च ॥ कंबलाश्र्वतराभ्यां च ह्वार्यकेण महात्मना ॥ १० ॥ ) बालव्यजनहस्तास्तमुपवीर्जन्ति निम्बगाः ॥ गङ्गा च चमू राजन् वितस्ता यमुना तथा ॥ ११ ॥ इरावती चन्द्रभागा नर्मदा च महानदी ॥ पयोष्णी ब्राह्मणी गौरी विपाशा देविका तथा ॥ १२ ॥ शतद्रुः कम्पना सिन्धुस्तथा चान्यास्तसहस्रशः ॥ सेव्यमानस्तया कूपैस्तथादोश्च सवियहैः ॥ १३ ॥ सरोवरेस्तसागरैश्च सपुद्देश्व यदत्तम ॥ तं दृष्ट्वा वरुणं राजन्स ववन्दे भृगुत्तमः ॥ १४॥ पूजयामास च तथा वरुणोऽपि भृगूत्तमम् ॥ पाद्यार्थ्याचमनीयौघैरासनेनोदकेन च ॥ १५॥ आसीनश्च तदा रामो दैत्यानां वधं वृत्तः ॥ महादेववचस्तत्त्वं वरुणाय न्यवेदयत् ॥ १६ ॥ स च तेनाभ्यनुज्ञातो ययौ दैत्यपुरं महत् ॥ वरुणोऽपि महातेजा रामवाक्येन यादव ॥ १७ ॥ संवाद्यामास तदा रामं रणकृतक्षणम् ॥ तदा वरुण्डूतेम्यो दैत्याः श्रुतिविस्तराः ॥ १८ ॥ निष्क्रम्यः नगराद्राजंश्चतु
१ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति ।