विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 173, कुल 1001 में से
संदर्भ में पढ़ेंपिकांस्तथा मत्स्याः केतवे कृसरं तथा ॥ वसासपिंषि च तथा देयानि मनुजेश्वर ॥ १० ॥ मधुलाजे कृत्तिकानां कूष्माणं दधिसर्पिषी ॥ रोहिणीनां च बीजानि दधिपिष्टधूपानि च ॥ ११ ॥ दध्योदनं चेल्यलानां मृगमांसं तथैव च ॥ रुधिरं कृसरं चौभौ रौद्रस्य विनिवेदयेत् ॥ १२ ॥ पुनर्वसोः प्रदातव्यं पललं सविलायनम् ॥ पायसं च ससर्पिष्कं तिष्याय विनिवेदयेत् ॥ १३ ॥ पिष्टसर्पिषि सर्पस्य क्षीरं दधियुतं तथा ॥ तिलोदनं सपिलं पित्र्यस्य विनिवेदयेत् ॥ १४ ॥ षष्टिकान्नं च भाग्यस्य मधुसर्पीषि चाप्यथ ॥ आर्यम्णाय तिलपूपान्षष्टिकान्नं तथैव च ॥ १५ ॥ प्रियंगुतण्डुलैः सिद्धं सावित्राय च पायसम् ॥ त्वाष्ट्रस्य चैव पौषूपं द्विजा चित्राण्डजास्तथा ॥ १६ ॥ वायव्यस्य च फलानि मूलकानि शुभानि च ॥ कुलत्थानि विशाखासु यवापूपास्तथैव च ॥ १७ ॥ कुलत्थभक्तं मित्राय दधिक्षीराऽन्वितं तथा ॥ घृतोदनं च शक्राय फलानि विविधानि च ॥ १८ ॥ मूलानि च विचित्राणि तथा मूलफलानि च ॥ आश्वत्थ सक्तवो देया मधुमिश्रोदकैः सह ॥ १९ ॥ सक्तवो वैश्वदेवाय मधुलाजे तथैव च ॥ ब्राह्माय पायसं देयं सद्गुंडं भूतिमिच्छता ॥ २० ॥ दध्योदनं पायसं च वैष्णवाय निवेदयेत् ॥ घृतोदकं च शाकानि वासवाय निवेदयेत् ॥२१॥ पैचे विडालं शाकांश्र वारुणाय तथा दधि ॥ आदाय मांसमाजं तु व्याघ्रं पिष्टकृतं दधि ॥२२॥ आहिर्बुध्न्याय मांसानि तथैव च रसोदनम् ॥ पौष्णाय सक्तवो माषा माषयुक्तश्च सक्तवः ॥२३॥ अन्नं पिष्टकृतं माषनान्यार्कं च तथा दधि ॥ अश्विनस्त्वथ वायव्यं तण्डुलानि तिलानि च॥२४॥राजन्रैण्याश्च पशवो मांसं पक्वाममर्कं तथा॥पायसं सघृतं क्षौद्रं पूर्वस्यां विनिवेदयेत्॥२५॥आग्नेय्यां दिशि राजेंद्र कृसरं क्षीरमिश्रितम् ॥ दक्षिणास्यां च दातव्यं कृसरं तैलमिश्रितम् ॥२६॥ नैऋत्यां च प्रदातव्यं कृसरं मत्स्यसंयुतम् ॥ कूष्माण्डांश्रैव मत्स्यांश्च पश्चिमास्यां निवेदयेत् ॥२७॥ वायव्यायाश्च मत्स्यान्वि तथा क्षीरोदनानि च ॥ ऐशान्यायाः प्रदातव्यौ घृतक्षीरोदनावुभौ ॥२८ ॥ मोदकोल्लोपिकामिश्राः सागराणां बलिर्भवेत् ॥२९॥ यद्यद्दृष्टस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतेमघवान ॥ तहेवतावाश्च तदेव देयं दिशस्तथा नात्र विचारणास्ति ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहक्षैत्रोदयेोदयाविधिनौम नवनवतितमोऽध्यायः ॥९९ ॥ मार्कण्डेय उवाच ॥ ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ॥ पानाय दापयेत्क्षीरं प्रीतये वान्तरात्मनः॥ गन्धोदकं तथाऽर्कय पयः सोमाय कीर्तितम् ॥ १ ॥ भूमिपुत्राय खर्जूरं मार्डीकं शशिशजाय चा जीवाय च तथा तक्रे शुक्त्रायेक्षुरसं तथा ॥ २ ॥ मांसपानं तु सौराय राहोर्मानसरं तथा ॥ छागं पयः प्रदातव्यं केतवे मनुजेश्वर ॥ ३ ॥ गन्धोदकं
१ 'पूतैस्तनान्तरात्मना' इति ख० ।