विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 175, कुल 1001 में से
संदर्भ में पढ़ेंक्षीरवृक्षसमिद्भिश्च अश्विनस्य विधीयते ॥ याम्यस्य मधुसंयुक्तैस्तिलैः पार्थिवसत्तम ॥ १४ ॥ आज्यं तिलांश्च तैलं च कृशरं मधु पायसम् ॥ दधि क्षीरं घृतं क्षौद्रं प्राच्यादीनां यथाक्रमम् ॥ १५ ॥ सागारणां च पयसा होमः कार्यः पृथक्पृथक् ॥ उक्तलाभे च सर्वेषां होमः कार्य्यस्ति- लाक्षतैः ॥ १६ ॥ सघृतैः पार्थिवश्रेष्ठ द्रव्यशाठ्यं विवर्जयेत् ॥ प्रभोः प्रथमकल्पस्य गौणकल्पेन वर्तते ॥ १७ ॥ न साम्परायिकं तस्य भव- तीह सुदुर्मतेः ॥१८॥ यच्चद्रव्यस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ॥ तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे होमद्रव्यविभागो नामैकोत्तरशततमोऽध्यायः ॥ १०१ ॥ मार्कण्डेय उवाच ॥ ध्रुवा द्यौरिति मन्त्रेण होमः कार्यो ध्रुवस्य तु ॥ उर्ध्वा अपर इत्येव ध्रुवायाश्च दिशो भवेत् ॥ १ ॥ ब्रह्मजज्ञानमित्येष ब्रह्मणः परिकीर्तितः ॥ ओस्त्वेवा इति च मन्त्रेण दिवः कार्यो महीपते ॥ २ ॥ पृथिवी दिवि चेत्येव पृथिव्याः परिकीर्तितः ॥ प्रणवेन च शेषस्य चाधस्तथा दिशः ॥ ३ ॥ अग्निमूं- र्ध्वेति मन्त्रोऽयमग्नये परिकीर्तितः ॥ उदुत्तमं वरुणपाशं मन्त्रोयं वरुणस्य तु ॥ ४ ॥ प्रणवश्च कुमारस्य तद्विष्णोर्विष्णवे भवेत् ॥ त्रातारमिन्द्रं शक्रस्य दैव्याश्च प्रणवो भवेत् ॥ ५ ॥ प्रजापते न त्वदेता मन्त्रोऽय स्यात्प्रजापतेः ॥ विनायकाय प्रणवो विश्वकर्मेति चाप्यथ ॥ ६ ॥ मन्त्रश्च कथित्यो राजन्र्स्ततं विश्वकर्मणः ॥ आकृष्णेति च मन्त्रोऽयमादित्यस्य प्रकीर्तितः ॥ ७ ॥ इमं देवेति सोमस्य अग्निमूर्द्धा कुजस्य तु ॥ उद्बुध्यस्वा बुधस्यापि मन्त्रः प्रोक्तो नरेश्वर ॥ ८ ॥ बृहस्पते अति यद्यो मन्त्र उक्तो बृहस्पतेः ॥ अन्नात्परिस्रुतेत्येवं मन्त्रः शुक्रस्य कीर्तितः ॥ ९ ॥ शंन्नोदेवीति सौरस्य काण्डात्कार्ष्णेति राहवे ॥ केतुं कृण्वन्निति तथा मन्त्र उक्तश्च केतवे ॥ १० ॥ अग्निर्मूर्द्धा कृत्तिकानां रोहिणीनां प्रजापते ॥ मधुश्चातेति मन्त्रोऽयम्मिल्वलानां प्रकीर्तितः ॥ ११ ॥ मूर्द्धानं रुद्रभाद्रोयाः सुनामाणं पुनर्वसोः ॥ तव श्रियेति पुष्यस्य होममन्त्रो विधीयते ॥ १२ ॥ नमोऽस्तु सर्पेभ्यश्चेति मन्त्रः सार्पस्य कीर्तितः ॥ अहं पितृनिति तथा मन्त्रः पित्र्यस्य कीर्तितः ॥ १३ ॥ सदासुगति भाग्यस्य तथा मन्त्रः प्रकीर्तितः ॥ एते अर्यमन्नित्येवमर्यम्णस्य च निर्दिशेत् ॥ १४ ॥ सावित्रस्य च सावित्री त्वाष्ट्रस्य य इमं तथा ॥ वायुरश्विति च तथा वायव्यस्य नराधिप ॥ १५॥ इन्द्राग्नी रोचनेत्येवमिन्द्राग्न्यस्य प्रकीर्तितः॥ १६॥ मित्रोजेनेति मैत्रस्य होममन्त्रः प्रकीर्तितः ॥ इन्द्रः सुत्राम इति च शक्रस्य वसुधाधिप ॥ १७ ॥ यन्ते देवीति निर्ऋर्ति मूलस्य च तथा भवेत् ॥ शन्न आपस्तथाप्यस्य होममन्त्रः प्रकीर्तितः ॥ १८ ॥ विश्वेदेवीति वैश्वस्य तथा च वसुधाधिप ॥ ब्रह्मजज्ञानमित्येवं तथा ब्राह्मस्य