विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 179, कुल 1001 में से
संदर्भ में पढ़ेंदृष्ट्वा च विमलेऽम्बरे ॥ १० ॥ आयुरभ्यधिकं जीवेद्द्रोणिं तु चतुर्दश ॥ अहोरात्रकृतात्पापात्तत्क्षणादेव मुच्यते ॥ ११ ॥ अम्मयानां ग्र- हाणां मूर्च्छिताः सूर्यरश्मयः ॥ जनयन्ति प्रकाशत्वं नात्र कार्या विचारणा ॥ १२ ॥ स्फाटिकानि विमानानि तथा सुकृतिनां नृप ॥ नक्ष- तारकबद्धा॑नि अम्मयानीव यादव ॥ १३ ॥ ग्रहर्क्षाणि समस्तानि ध्रुवेण भगवांस्तथा ॥ कल्पस्थायीनि राजेन्द्र नात्र कार्या विचारणा ॥ ॥ १४ ॥ तेषां तदभिमानिन्यो देवता यदुनन्दन ॥ मन्वन्तरादौ जायन्ते न भवन्ति पुनः पुनः ॥ १५ ॥ उत्तानपादिर्धर्मात्मा ध्रुवस्तेष्वपि यादव ॥ स्वायम्भुवेऽन्तरे जातिस्तदृताम्भूत्संसपूर्वम् ॥ १६ ॥ तस्य ते जन्म वक्ष्यामि सर्वकल्मषनाशनम् ॥ पूर्वं ब्रह्मा महीपाल सिसृक्षुर्विविधाः प्रजाः ॥ १७ ॥ द्विधा कृत्वात्मनो देहमर्थेन पुरुषोऽभवत् ॥ अर्धेन नारी तस्यासीद्राजन्नुत्तानजत्सुतः ॥ १८ ॥ विगङ्सुस्तत्पुत्रः पुरुषो मनु रुच्यते ॥ यस्यैकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १९ ॥ प्रियव्रतोत्तानपादौ मनोः पुत्रावुभौ स्मृतौ ॥ क्षत्रप्रवर्तकौ तौ तु पूर्वं मन्वन्तरे स्मृतौ ॥ २० ॥ उत्तानपादपुत्रस्तु ध्रुवो विष्णुः प्रकीर्तितः ॥ निबद्धो भ्राम्यते यत्र मरुतां ज्योतिषां गणः ॥ २१ ॥ सप्तापि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ॥ मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरव च ॥ २२ ॥ पुलस्त्यः पुलहश्चैव क्रतु स्सप्तर्षयोऽमलाः ॥ वसिष्ठमाश्रिता साध्वी तेषामप्यरुन्धती ॥ २३ ॥ तस्याधस्तादर्कऋक्षं तस्याधस्ताच्छनैश्चरः ॥ तस्याधस्तात्तथा जीवस्तस्याधस्तात्कुजः स्मृतः ॥ २४ ॥ तस्याधस्ताद्दिनेशश्च तस्याधस्ताच्च भार्गवः ॥ तस्याधस्ताद्बुधः प्रोक्तस्तस्याधस्ताच्च चन्द्रमाः ॥ ॥ २५ ॥ प्राग्दक्षिणागतिश्चैव ज्योतिषां चक्रमुच्यते ॥ सर्वे ग्रहाः प्राग्गतयस्तुल्यवेगाः प्रकीर्तिताः ॥ २६ ॥ शीघ्रत्वेनोपचर्यन्ते यथा सन्ने महीपते ॥ यथा यथा विशिष्टाश्च तथा मन्दाः प्रकीर्तिताः ॥ २७ ॥ तेषां ते सम्भवं वक्ष्ये प्राप्ते वैवस्वतेऽन्तरे ॥ तेषां जननसंहारैर्वर्तते किं प्रयोजनम् ॥ २८ ॥ अनादिनिधनः श्रीमान्विष्णुर्नारायणः प्रभुः ॥ स एव देवकार्यार्थं भूत्वा द्वादशधा पुरा ॥ २९ ॥ अदितेर्जनयामास ह्यात्मानं कश्यपात्सुसुः ॥ तेषां तु मध्यात्सवित्ता आदित्यश्च व देवता ॥ ३० ॥ प्रोक्तं ते सवितुर्जन्म शृणु चन्द्रमसस्ततः ॥ दशभ्यश्च दिशाभ्यश्च तथात्रेः सुमहात्मनः ॥ ३१ ॥ विष्णोरभूद्भवन्नूजपुत्रः स मृगलाञ्छनः ॥ दाक्षायणी वसोर्नाम पत्नी धर्मस्य विश्रुता ॥ ३२ ॥ जनयामास धर्मज्ञं वसुमध्ये निशाकरम् ॥ श्रीसहश्चतथा जातः सोमश्चामृतमन्थनात् ॥ ३३ ॥ प्रकाश्येन शशाङ्कस्य जन्म तेऽभि... तथा अतः परं प्रवक्ष्यामि तव भौमस्य सम्भवम् ॥ ३४ ॥ आसीद्दित्यो हिरण्याक्षो महाबलपराक्रमः ॥ स वै कन्यामजनयद्विकेशीं नाम नामतः ॥ ३५ ॥ सा लेभे ...