विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 181, कुल 1001 में से
संदर्भ में पढ़ेंयमं च यमुनां चैव त्रैलोक्यस्यैकपालिनीम् ॥ तेषु जातेषु पुत्रेषु संज्ञा सा चारुलोचना ॥ ६३ ॥ भर्तुस्तेजोतिदृप्तंधर्षमसहन्ती वराङ्गना ॥ सा तु छायां समाहूय इदं वचनमब्रवीत् ॥ ६४ ॥ महद्रूपण त्वया भद्रे वस्तव्यमविकारया ॥ पालनीयौ च मे पुत्रौ त्वयेमौ दुहिता च मे ॥ ६५ ॥ एवमुक्त्वा ययौ देवी पितरं वरवर्णिनी ॥ पित्रा निरस्ता भर्तारं गच्छगच्छेति भाषिता ॥ ६६ ॥ उत्तरान्स्तु कुरून् गत्वा वडवारूपधारिणी ॥ चचार शाद्वलाञ्छुभ्रान्वनेषूपवनेषु च ॥ ६७ ॥ छायायां च तथाकोपि संज्ञेयमिति चिन्तयन् ॥ द्वौ पुत्रौ जनयामास सावर्णिं तु शनैश्चरम् ॥ ६८ ॥ वत्र उवाच ॥ कथं तामात्मनासंज्ञां भूय एव दिवाकरः ॥ एतन्मे संशयं ब्रूहि भृगुवंशविवर्धन ॥ ६९ ॥ मार्कण्डेय उवाच ॥ सुतपुत्रैस्तु यथा छायानुवर्तते ॥ न तथा वर्तते देवी संज्ञोक्तेषु भामिनी ॥ ७० ॥ ततः कदाचिद्वित्तं क्रुद्धः संततर्ज तदा यमः ॥ तं शशाप तदा च्छाया पादस्ते पततामयम् ॥ ७१ ॥ यमः शशंस तत्सर्वं पितुः पद्स्खलनाद्दिनः ॥ श्रुत्वा यमस्य वचनं यमं प्रोवाच भास्करः ॥ ७२ ॥ कृमयो मांसमादाय तथा यास्यन्ति भूत लम् ॥ एवं शाम्येश्च शापस्ते त्वं च त्रातो भविष्यसि ॥ ७३ ॥ एतच्छ्रुत्वा पितुर्वाक्यं चकार सुमहत्तपः ॥ आराधयामास तदा देवदेवं जनार्दनम् ॥ ७४ ॥ तस्मात्स लेभे धर्मात्मा धर्मराजत्वमञ्जसा ॥ सूर्योऽप्याविन्दंस्तत्वेन पुत्रशापस्य कारणम् ॥ ७५ ॥ क्रोधाद्विववृत्स्तदा छायां पप्रच्छाग्निमिवोत्ततः ॥ शशंस तस्य सा सर्वं यथावृत्तमनिन्दिता ॥ ७६ ॥ श्रुत्वा तु वचनं तस्यास्त्वष्टुर्वेश्मागमाद्रविः ॥ न ददर्श च तत्रस्थां तां भार्यां शुभचारिणीम् ॥ ७७ ॥ त्वष्ट्रा चाशंसितं तस्य वडवारूपधारिणी ॥ असहन्ती तु तेजस्ते कुरूनावसते शुभा ॥ ७८ ॥ अग्रिमावेश्य देवेशं त्वद्यापि जगतां पतिम् ॥ तेजसः शातनं चक्रे देवस्य सवितस्तदा ॥ ७९ ॥ कीर्णे तेजसि तद्रूपं भृशं कान्तरं स्थितम् ॥ शीर्णेन तेजसा चक्रे त्वष्टा चक्रे जगद्गुरोः ॥ ८० ॥ सुदर्शनमिति ख्यातं देवस्य हरेर्महसः ॥ कान्तरूपस्तु सविता दृष्ट्वा रूपमुरस्तदा ॥ ८१ ॥ उत्तरान्स्तु कुरून् गत्वा वडवारूपधारिणीम् ॥ स्वां ददर्श तदा भार्यां शीतलदूयसंयुताम् ॥ ८२ ॥ मैथुनार्थी तु तां देवी जगाम त्वरितस्तदा ॥ वेगवन्तं तु सम्प्राप्तं दृष्ट्वा तुरगमुत्तमम् ॥ ८३ ॥ व्यचेष्टत च सा देवी परपुंसोपशङ्कया ॥ मुखे च भावयामास तां सूर्यो दीप्तदीधितिः ॥ ८४ ॥ तस्या नासापुटौ पूर्णौ तदा शुक्रेण पार्थिव ॥ तथा तस्यान्तदा जातो नासत्यावश्विना वुभौ ॥ ८५ ॥ भूमौ च पतितं यच्च ताभ्यां शुक्लं विमर्द्दितम् ॥ तस्मात्सोभात्समुत्पन्नः कुमारः सूर्यसंन्निभः ॥ ८६ ॥ ततः स्वरूपमास्थाय देवदेवोऽपि भास्करः ॥ स्वरूपिणिमथादाय संज्ञां तां स्वगृहं ययौ ॥ ८७ ॥ नासत्यौ देवभिषजौ कृतवानश्विनावुभौ ॥ ततो विमर्द्दनाज्जातं पुत्रं