विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 187, कुल 1001 में से
संदर्भ में पढ़ेंदेहत्यागे कृते राजन्सती देवी महाबला ॥ १०७॥ उमेति विश्रुता लोके मेनायाः समपद्यत ॥ हिमाचलोऽपि तां देवीं ददौ शर्वाय पार्थिव ॥ ॥ १०८ ॥ तया वियुज्यते नासौ कदाचिदपि विश्रुता ॥ तस्यां तु जनयामास देवदेवोऽपि शङ्करः ॥ १०९ ॥ विनायकं कुमारं च भृङ्गेशं सुमहाबलम् ॥ विघ्नानां च गणानां च पुत्रं राज्येऽभ्यषेचयत् ॥ ११० ॥ विनायकं महादेवो गजवक्त्रं मनस्विनम् ॥ देवसेनापतिं शक्रः कुमारं कृतवाँस्तदा ॥ १११ ॥ न तत्याज समीपांच भृंगेशं शङ्करस्तदा ॥ वैवस्वतेन्तरे प्राप्ते राजा दक्षो व्यजायत ॥ ११२ ॥ ध्रुवस्यान्वयसम्भूतौ महाबलपराक्रमः ॥ तत्राश्वमेधे वितते अनाहूतेन शूलिना ॥ ११३ ॥ यज्ञो विध्वंसितस्तस्य वीरभद्रेण पार्थिव ॥ स दक्षो जनयामास कन्याः पार्थिवसत्तम ॥ ११४ ॥ तासां च मध्यादाददाद्विशतिमन्दिने ॥ देवतास्त्वभिमानिन्यो नक्षत्राणां पृथक्पृथक् ॥ ११५ ॥ उक्तं हि ते ऋक्ष गणस्य जन्म शुभावहं पापभयापहं च ॥ अतः परं किं कथयामि तुभ्यं तत्त्वं वदस्वायतलोलिताक्ष ॥ ११६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ऋक्षादिसंभवाध्यायो नाम सप्तोत्तरशततमोऽध्यायः ॥ १०७॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ दक्षस्य वंशं सकलं नक्षत्राणां च सम्भवम् ॥ त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ॥ १ ॥ मार्कण्डेय उवाच ॥ औत्तानपादिर्धर्मात्मा ध्रुवः पूर्वं मयोदितः ॥ ध्रुवस्त्वजनयत्सृष्टिं महाबलपराक्रमाम् ॥ २ ॥ तस्य प्राचीनगर्भस्तु पुत्रस्तस्याप्युदारधीः ॥ दिवंजयस्तस्य पुत्रस्तस्य पुत्रो रिपुः स्मृतः ॥ ३ ॥ रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः ॥ उरुस्तस्य सुतः श्रीमान्दृक्तस्तस्याप्यथात्मजः ॥ ४ ॥ अङ्गिर्जग्राह तं पुत्रं दत्तकं तु यशस्विने ॥ अङ्गस्य वेनः पुत्रस्तु नास्तिको धर्मवर्जितः ॥ ५ ॥ असच्छास्त्ररतो नित्यं लोकायतिकसत्तमः ॥ चकार लोके मर्यादां धर्मबाह्यो नराधिपः ॥ ६ ॥ न यष्टव्यं न होतव्यं न देयं धर्मकारणम् ॥ ऋषयस्तं समागम्य कदाचिद्वाक्यमब्रुवन् ॥ ७ ॥ ऋषय ऊचुः ॥ पूर्वमवृत्तां मर्यादां पूर्वैः पूर्वतरैः कृताम् ॥ लोकायतिकवाक्येन न त्वं हन्तुमिहार्हसि ॥ ८ ॥ कर्मणा सुकृतेनेह सुखं जन्तुः समश्नुते ॥ दुःखं जन्तुश्च प्राप्नोति दुष्कृतेन च कर्मणा ॥ ९ ॥ ये यजन्ते सदा देवान्गुरुशुश्रूषकाश्च ये ॥ विप्रपूजारता ये च तीर्थयात्रातथाश्च ये ॥ १० ॥ तपस्विनः सत्यरता ये च दाने सदा रताः ॥ समश्नुवन्ति भूपाल परलोके सुखानि ते ॥ ११ ॥ स त्वं सुखपरिभ्रष्टान्लोकान्नाप्तुमिहार्हसि ॥ वेन उवाच ॥ भवतां किं प्रलापेन वृथैव द्विजपुङ्गवाः ॥ १२ ॥ ये मृतास्ते मृताः सर्वे मृतानां सम्भवः कुतः ॥ प्रापत्य वायुभूतस्य निष्क्रान्तस्य शरीरतः ॥ १३ ॥ भूयः शरीरग्रहणं युक्त्या नैवोपपद्यते ॥ तपांसि ह्यपनाशिभिन्नाः संयमो भोगवर्द्धना ॥ १४ ॥ अग्नि