विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 189, कुल 1001 में से
संदर्भ में पढ़ेंदुःखजीविनः ॥ ३८ ॥ सुखान्विता हि दृश्यन्ते पापकर्मरतास्तथा ॥ तस्माद्धर्मेण किं कार्यं सुखं जीवेत्तु पण्डितः ॥ पुरुषार्थः परः कामो धनेन च तदाप्यते ॥३९॥ ऋषय ऊचुः ॥ प्रत्यक्षमेव पश्यन्तः पूर्वजन्मनि मानवाः ॥४०॥ परलोकं न पश्यन्ति पश्य देवेन वञ्चिताः ॥ जातमात्रो यथा जन्तुस्तनं गृह्णाति पार्थिव ॥ ४१ ॥ पूर्वजन्मान्तराभ्यासं विना तन्नैव चेष्टितम् ॥ प्राणेन वायुभूतेन जन्मन्त्यस्मिन्नन्या नरः ॥ ४२ ॥ करोति देहग्रहणं जन्मान्तरगतस्तथा ॥ महीविकारमश्मानः कर्मजीवविवर्जितान् ॥ ४३ ॥ सूक्ष्मत्वं च महत्त्वं च तेषामीश्वरकारितम् ॥ मन्त्रेण नीयते श्राद्धं फलोत्काले जने ॥ ४४ ॥ दृष्टः प्रवासिनो नैव तथा मन्त्रस्य पार्थिव ॥ प्राकाम्यायुक्ता देवाश्च युक्ता लघिमना तथा ॥ ४५ ॥ ज्ञानं युक्ताश्च गृह्णन्ति सर्वत्र विनिवेदितम् ॥ धर्ममासेवतां नृणां विपत्तियां नराधिप ॥ ४६ ॥ पूर्वजन्मकृतेनेह सुकृतेन च कर्मणा ॥ सुतेनैतेह तपसा ब्राह्मणेवसुधाधिप ॥ ४७ ॥ शापानि दीयमानानि प्रत्यक्षं किञ्च पश्यसि ॥ अमोघशास्तथा विप्राः सुततपसो नृप ॥ ४८ ॥ किन्न पश्यसि लोकेऽस्मिन्प्रत्यक्षं धर्मदर्शनम् ॥ बीजानि बीजकालेषु यैर्वाप्तानि पार्थिव ॥ ४९ ॥ त एव लोके दृश्यन्ते प्रत्यक्षं फलभागिनः ॥ दृष्ट्वा मन्त्रप्रभा वेण विप्रर्षेणपतत्परान् ॥ ५० विप्रापहारी कुर्वाणान्यैर्योऽध्यस्तीति चिन्तय ॥ येषामपि वचः शुद्धं परलोकं न विद्यते ॥ ५१ ॥ तैऽप्युद्विग्नन्तै पापानां तस्मात्पापं विवर्जय ॥ मार्कण्डेय उवाच ॥ एतच्छ्रुत्वा तु वचनमृषीणां भावितात्मनाम् ॥ ५२ ॥ हेतोत्तरस्तदा दीनो नोत्तरं प्रत्य भाषत ॥ चिन्तयामास मनसा ब्राह्मणैर्धर्मतत्परैः ॥ ५३ ॥ यदिदुक्तं वचनं मिथ्यैतत्नात्र संशयः ॥ अभिप्रायं नरेन्द्रस्य ज्ञात्वा ब्राह्मणपुङ्गवाः ॥ ॥५४॥ विनष्टं मेनिरे सर्वं त्रैलोक्यं सचराचरम् ॥ एतस्मिन्नन्तरे देवैर्ब्रह्मणानां महात्मनाम् ॥ ५५ ॥ बुद्धिनिविशिता तस्य विनाशाय दुरात्मनः ॥ सर्वेश्वरः सर्वशक्तिः सर्वदृक्सर्वसाधनः ॥ ५६ ॥ प्रार्थितश्च तदा विष्णुः पृथिवीराज्यकारणात् ॥ देवा ऊचुः ॥ ध्रुववंशोद्भवं देवं वेनं भूपालकि ल्विषम् ॥ ५७ ॥ ब्राह्मणा घातयिष्यन्ति मन्त्रपूतैः कुशोदकैः ॥ ऊरू चास्य ततः क्षिप्रं मथिष्यन्ति समाहिताः ॥ ५८ ॥ कुरुष्व संभवं तत्र लोकानां हितकाम्यया ॥ कृत्वा तु संभवं तत्र पालयस्व जगत्त्रयम् ॥ ५९ ॥ आस्थाय मानुषं रूपं त्वं हि पालय तापतः ॥ एवं करिय इत्युक्त्वं देवदेवेन दक्षिण ॥ ६० ॥ देवैश्चोक्तं संक्रुद्धा निजघ्नुर्ब्राह्मणा नृपम् ॥ मन्त्रपूतैः कुशैः सर्वैस्ततस्तस्य दुरात्मनः ॥ ६१ ॥ ऊरू ममन्युः सहसा ततोऽस्य तनयोऽभवत् ॥ ह्रस्वोऽतिमात्रं कृष्णांगो दारुणो दारुणाकृतिः ॥ ६२ ॥ निषीदेति तमूचुस्ते ब्राह्मणा वेदपारगाः ॥ सर्वभूतनिषादानामुषीपाक्येन पार्थिव ॥ ६३ ॥ निषादवंशकर्तारं वेनकल्मषसम्भवम् ॥ ततोऽस्य दक्षिणं पाणिं ममन्युः सहसा द्विजाः ॥६४॥