विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 193, कुल 1001 में से
संदर्भ में पढ़ेंतानुवाच महातेजा ब्रह्मपुत्रः स नारदः ॥१७॥ किं प्रमाणं तु मेदिन्यां दृष्ट्वैवं चाऽअज्ञानात् कथं सर्गं भवन्तः कर्तुमुद्यताः ॥१८॥ महीमानमथान्वेष्टुं गता दक्षसुतास्ततः ॥ लोकालोकस्य परतो गभोदस्य तथोपरि ॥१९॥ वायुमण्डलमसाद्य भ्रमणानाश्रमागताः ॥ दक्षोऽपि तेषु नष्टेषु वीरिण्यामेव धर्मवित् ॥ २० ॥ सहस्रं जनयामास पुत्राणामपरं ततः ॥ विवर्धिषून्वस्ते तु शबलाश्वाः पुनः प्रजाः ॥ २१ ॥ पूर्वोक्तं वचनं तैस्तु श्राविता नारदेन तु ॥ अन्योन्यमूचुस्ते सर्वं सम्यग्गाह महामुनिः ॥२२॥ भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ तेऽपि हर्यश्वमार्गेण प्रयाताः पृथिवीमिमाम् ॥ २३ ॥ तमेव वायुमासाद्य विनष्टाः शाश्वतीस्समाः ॥ तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रताः ॥ २४ ॥ प्रयातो नश्यति विभो तन्नः कार्यं विजानता ॥ अथ तेषु विनष्टेषु दक्षः कोपसमन्वितः ॥२५॥ शशाप नारदं क्रुद्धः तुल्यं जन्म न चाप्स्यसि ॥ देहं त्यक्त्वा स शापेन तेन दक्षस्य नारदः ॥ २६ ॥ भूयो मुनिसुतो जातः कश्यपस्य महात्मनः ॥ अश्वमेधं च वितते दक्षस्याऽदुक्तकर्मणः ॥ २७ ॥ विवंसायामास हरः पूर्ववैरेण भावितः ॥ दक्षोऽपि शतवार्ष्यान्तु शशास्ते ब्राह्मणोत्तमाः ॥२८॥ अद्य प्रभृति धूर्ज्यान्ति नत्वा सार्धं दिवौकसैः ॥ जन्मान्तरेऽपि वैराणि विनश्यन्ति न पार्थिव ॥ २९ ॥ तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ॥ हर्यश्वेष्वपि नष्टेषु महात्मसु पुरा तदा ॥ ३० ॥ असिक्न्यां जनयामास दक्षो दुहितरस्तदा ॥ षष्टिः कन्या रूपयुक्तास्तपसा महता युताः ॥ ३१ ॥ द्वे ददौ बहुपुत्राय चतस्रोऽरिष्टनेमिने ॥ द्वे प्रादात्स कृशाश्वाय दश धर्माय चाप्यथ ॥ ३२ ॥ चतुर्दश कश्यपाय चाष्टाविंशतिमिन्दवे ॥ प्रददौ बहुपुत्राय सुप्रभां भामिनीं तदा ॥ ३३ ॥ मनोरमां भानुमतीं विशालां बहुदामथ ॥ दक्षः प्रादान्महाभागश्चतस्रोऽरिष्टनेमिने ॥ ३४॥ कृशाश्वाय च प्रादात्सुप्रभां च तथा जयाम् ॥३५॥ अरुन्धतीं वसुं जामिलम्बाम् भानुमिरवतीम् ॥३६॥ संकल्पां च मुहूर्ता च साध्यां विश्वां तथैव च ॥ ददौ स दश धर्माय महात्मा लोकविश्रुतः ॥३७॥ अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ॥ कद्रूः क्रोधा इरा प्राधा विनता सुरभिः खशा ॥ ३७ ॥ चतुर्दशैताः प्रददौ कश्यपाय प्रजापतिः ॥ नामभिः पूर्व विख्याताः कृत्तिकाद्यास्तथैव च ॥ ३८ ॥ ददौ नक्षत्रयोगिन्य अष्टाविंशतिमिन्दवे ॥ देवतास्त्वभिमानिन्यो नक्षत्राणां महीपते ॥ ३९ ॥ एतावदुक्तं तव दक्षवंशम्प्लोद्भवं चाप्यथ भूमिपाल ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ ४० ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० दक्षवंशवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥
॥ छ ॥
॥ वज्र उवाच ॥ ॥ महादेवेन ऋषयः शापाः स्वायंभुवेऽन्तरे ॥ तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्तय ॥ १॥ दशाशयोर्नीलं च तथा प्रजाः कीर्तय मे विभो ॥ ऋषीणां च तथा वंशं भृगुवंश