विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 195, कुल 1001 में से
संदर्भ में पढ़ेंवैवाह्या ज्ञेयास्त्रिप्रवरास्तु ते ॥ भृगुश्च जमदग्निश्च तथैवोर्व्वश्च पार्थिव ॥ २७ ॥ अतः परं प्रवक्ष्यामि शृणु चान्यान्भृगूद्वहान् ॥ जमदग्निर्विद्वैश्च पौलस्त्यो वैजभृत्तथा ॥ २८ ॥ प्राचीनयोग्यो भगवानृषिः क्रौञ्चायनस्तथा ॥ ऋषिमभ्यश्चजाताश्च एकायनवटापनों ॥ २९ ॥ आत्रेयोऽथिमितश्चैषां सर्वेषां प्रवरः स्मृतः ॥ भृगुश्च च्यवनश्चैव ह्यात्मवानस्तथैव च ॥ ३० ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ऋग्वेदीया मार्गेयचे ग्रामायणिरेथायानिः ॥ ३१ ॥ आपस्तम्बिस्र्वस्तथा ताल्विनैर्ऋतिः कपिञ्जरैव च ॥ आर्ष्टिषेणो गार्दभिश्च काद्द्मायणिरेव च ॥ ३२ ॥ अश्वा यनिरथाश्वापि पंचार्षेयाः प्रकीर्तिताः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ३३ ॥ यौविराधो वीतहव्यो नासाथ्यश्चण्डमो दमः ॥ जीवंत्या यनिमोदश्च विल्विश्च खलिस्तथा ॥ ३४ ॥ भाविलिर्भागवित्तिश्च कौशाम्बिर्विद्युदंक्षकैः ॥ वालेयः समदा गेयिर्गिरिक्षितिरथैव च ॥ ३५ ॥ गौर्गिजिश्च संवशालस्तथा पौष्णायनो मुनिः ॥ रोमादश्च तथैतेषामार्षेयाः प्रवरा मताः ॥ ३६ ॥ भृगुश्च वीतहव्यश्च तथा चैव सदेवसः ॥ परस्पर मवैवाह्या ऋषयः परिकीर्तिताः ॥३७॥ खालयोनिः शाकटायनो मैत्रेयः सातयस्तथा ॥ द्रोणायनो नौकमायन आशिषिन्ध पिक्षायनिः ॥ ३८ ॥ हेमजिद्विस्तथैतेषामार्षेयाः प्रवरा मताः ॥ भृगुश्चैवाथ वध्यश्वो दिवोदासस्तथैव च ॥३९॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ४० ॥ सकायनो यज्ञापर्चिर्ग्यन्थिस्तथैव च ॥ ४० ॥ प्रत्यूहश्च तथा श्रीभ्यःशैलिवैकादशायनिः ॥ तथा गृत्समदो राजञ्शुनकश्च महातृषिः ॥ ४१ ॥ प्रवरस्तु यथोक्तानां ब्यार्षेयाः परिकीर्तिताः ॥ भृगुर्गृत्समदश्चैव द्वावेतो परिकीर्तितौ ॥ परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥४२ ॥ एते तवोक्ता भृगुवंश जाता महानुभावा नृप गोत्रकाराः ॥ येषां च नाम्नां परिकीर्तनेन पापं समग्रं विजहाति जन्तुः ॥ ४३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्क ण्डेयवज्रसंवादे भृगुवंशातुक्रीर्त्तनं नामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥ मार्कण्डेय उवाच ॥ मरीचितनया राजन्सुरूपा नाम विश्रुता ॥ भार्या ह्यङ्गिरसो दिव्या यस्याः पुत्रा दश स्मृताः ॥ १ ॥ आत्मा ह्यायुर्मुहूर्द्दो मदः प्राणस्तथैव च ॥ हविष्मांचांगविष्ठश्च ऋतः सत्यश्च ते दश ॥ ॥ २ ॥ इत्येतेऽङ्गिरसो नाम देवा वै सोमपीथिनः ॥ सुरूपा जनयामास ऋषीन्सर्वेश्वरानपिमान् ॥ ३ ॥ बृहस्पतिं गोतमं च संवर्त च महा ऋषिम् ॥ अयस्यं वामदेवं च उतथ्यमुरुशिजं तथा ॥ ४ ॥ इत्येते ऋषयः सर्व गोत्रकाराः प्रकीर्तिताः ॥ तेषां गोत्रसमुत्पन्नान्गौत्रकारा न्त्रिबोध मे ॥ ५ ॥ उतथ्यो गौतमश्चैव तैलेजोऽभिजिदस्तिथा ॥ बौद्धिर्नैधिः सलोगाक्षिः क्षोरोजी टाकिरेव च ॥ ६ ॥ राह्लाकिः सौपुरिश्च केरातिः शारलोमकिः ॥ पौष्पिजन्मोतुभावश्च ऋषिश्चैव बडोबडः ॥ ७ ॥ कराटक्श्च माचीयः उपविन्दुरथैषिणिः ॥ रौहिण्यायानिर्जागर्लिः