विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 197, कुल 1001 में से
संदर्भ में पढ़ेंत्र्यार्षेयो नामतस्तेषां प्रवरो भूमिपोत्तम ॥ अङ्गिरादामवाह्यश्च तथा चैवाप्यतत्ययः ॥ ३१ ॥ परस्परमवैवाह्याः सर्व एव प्रकीर्तिताः ॥ संकृतिश्च त्रिमाद्रिश्च शैशूः शैपतिरेव च ॥ ३२ ॥ तण्डिश्च जानकिश्चैव तैलकाद्वय एव च ॥ नारायणाश्चापिमिश्च लौक्षिर्गांगिर्हलस्तथा ॥ ३३ ॥ गालविश्चापि त्र्यार्षेयः सर्वेषां प्रवरा मताः ॥ आंगिरः संकृतिश्चैव गौरिवीतिस्तथैव च ॥ ३४॥ परस्परमवैवाह्याः ऋषय परिकीर्तिताः ॥ काण्वायना हारिकः कौत्स्यः पौंग्यस्तथैव च ॥ ३५ ॥ हस्तिदमो वात्स्यमालिर्गागिलोयैरवः ॥ भीमवेशः शांख्व्यदर्मिः सर्वे त्रिप्रवरा मताः ॥ ३६ ॥ अङ्गिरास्तु तमस्यश्च पुरुकुत्सस्तथैव च ॥ कुत्साः कुत्सैर्वैवाह्या एवमाहुः पुरातनाः ॥ ३७ ॥ रथीतरार्णां प्रवराः त्र्यार्षेयाः परिकीर्तिताः ॥ अङ्गिराश्च सुरूपार्थ्यस्तथैव च रथेतरः ॥ ३८ ॥ रथेतररा अवैवाह्या नितराञ्च रथेतरैः ॥ विष्णुवृद्धः शने मद्रिर्जत्रिणः कात्रिणस्तथा ॥ ३९ ॥ प्रडिवश्च महातेजास्तथा चैव परायणः ॥ त्र्यार्षेयश्च मतस्तेषां सर्वेषां प्रवरः शुभः ॥४०॥ अङ्गिराश्च विरूपाक्ष पृथुदश्वस्तथैव च ॥ परस्परमवै वाह्या इत्येते परिकीर्तिताः ॥ ४१ ॥ सान्त्यसुग्धिर्महातेजा हिरण्यस्तम्बिसुव्रतौ ॥ त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरो नृप ॥ ४२ ॥ अङ्गिरात्तृत्स दश्चैव मुद्दलश्च महातपाः ॥ परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ ४३ ॥ मोहजिह्नो देवजिह्वो अभिजिद्बविरादयः ॥ अपाननह्रव्यश्चैव वैरिण्यास्तावितौर्मोद्गलाः ॥ ४४ ॥ त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ॥ अङ्गिराश्चैव ताविश्च मौद्गल्यश्च महातपाः ॥ ॥ ४५ ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ऊरुण्वश्च मुरुण्डश्च तृतीयः शाकटायनः ॥ ४६ ॥ ततः प्रागश्वयो नारी मर्कटो रमणः शणः ॥ काण्वमार्कट्यश्चैव तथा रामवणो मुनिः ॥ ४७ ॥ श्यामायनस्तथैतेषां त्र्यार्षेयः प्रवरो मतः ॥ अङ्गिरा आजमीढश्च काण्वश्चैव महातपाः ॥ ४८ ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महामुनिः ॥ ४९ ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ आर्षेयो नामतश्चैषां सर्वेषां प्रवरः शुभः ॥५०॥ अङ्गिरस्तित्तिरिस्त्वैव कपिभूश्च महाद्युतिः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ५१ ॥ अङ्गिराः सम्रद्वाजो ऋषिवन्दनवस्तथा ॥ ५२ ॥ बृहस्पतिर्मंत्रवचाः पञ्चार्षेयाः प्रकीर्तिताः ॥ अङ्गिराः सम्रद्वा जस्तथा चैव बृहस्पतिः ॥ ५३ ॥ ऋषिर्मित्रवचश्चैव ऋषिवन्दन्तवस्तथा ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ५४ ॥ भारद्वाजः कटाशौण्डः शैशिरयस्तथैव च ॥ इत्येते कथिताः सर्वे ब्यामुष्यायणात्रजोः ॥ ५५ ॥ पञ्चामेयास्तथान्येषां प्रवराः परिकीर्तिताः ॥ अङ्गिराः सम्रद्वाजस्तथैव च
१ 'माद्रिः' इति ख० । २ 'आर्षेयश्च' इति ख० । किञ्चित्पुस्तके यत्रयत्र त्र्यार्षेय इति पदं तत्र सर्वत्र आर्षेय इत्येव लभ्यतेऽत्र तूत्तर । ३ 'रावणजेसुनी' इति ख० ।