भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 201, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 201

भगो वसुर्वसिष्ठश्च इन्द्रः सम्पतिरेव च ॥ १३ ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ औपस्वस्थाः स्वस्थ्यलयो वालो हलो ह्यश्वश्च ये ॥ १४ ॥ मध्यन्दिना अक्षतयः पैप्पला देविर्वेङ्कपा ॥ त्रैशुङ्गा वनगा आलवाः कुण्डिनाश्च नरोत्तम ॥ १५ ॥ ज्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ॥ वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥ १६ ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ जातूकर्णा यचश्चैव पाद्पाश्च तथैव च ॥ १७ ॥ ज्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरस्तथा ॥ जातूकर्णो वसिष्ठश्च तथैवान्त्वत्थ पार्थिव ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ १८ ॥ वसिष्ठवंशविहिता मयेते ऋषिसम्भवा नृप गोत्रकाराः ॥ येषान्तु नाम्नां परिकीर्त्तनेन पापं समग्रं पुरुषो जहाति ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथममखण्डे मा० सं० वसिष्ठवंशानुकीर्त्तनं नाम षोडशाधिकशततमोऽध्यायः ॥ ११६ ॥ ॥ मार्कण्डेय उवाच ॥ वसिष्ठस्तु महातेजा निमेः पूर्वपुरोहितः ॥ १ ॥ बभूव पार्थिवश्रेष्ठ यज्ञेस्तस्य समन्ततः ॥ शान्तात्मा पार्थिवश्रेष्ठ विश्राम तदा पुरा ॥ २ ॥ तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ॥ भगवन्द्यष्टुमिच्छामि तन्मा याजय मा चिरम् ॥ ३ ॥ तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ॥ कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः समन्ततैः ॥ ४ ॥ भृशं श्रान्तोऽस्मि विश्रम्य याजयिष्यामि ते नृप ॥ एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तमः ॥ ५ ॥ पारलौकिककार्येषु कः प्रतीक्षितुमुत्सहते ॥ न यस्य सोहृदं ब्रह्मन्कृतान्तेन बलीयसा ॥ ६ ॥ धर्मकार्ये त्वरा कार्या चले यस्माद्धि जीवितम् ॥ धर्ममार्गतो जन्तुर्मृतोऽपि सुखमश्नुते ॥ ७ ॥ श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् ॥ न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥ ८ ॥ क्षेत्राण्युत्सृज्यहासक्तमन्यत्र गतमानसम् ॥ वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ ९ ॥ न कालस्य प्रियः कश्चिद्द्वेष्यो वास्य न विद्यते ॥ आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ १० ॥ प्राणो वायुश्चलत्वञ्च वायोर्विदितमेव च ॥ यत्र यज्जीव्यते ब्रह्मन्क्षणमात्रं तदद्भुतम् ॥ ११ ॥ सोऽहं सम्भृतसम्भारो भवन्तसमुपागतः ॥ न चेद्याजयसे मह्यं याज्यामन्यन्तु याजकम् ॥ १२ ॥ एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ॥ शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि ॥ १३ ॥ श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ॥ धर्मज्ञः सुरेन्द्राद्य च्याजकं कर्तुमर्हसि ॥ १४ ॥ निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ॥ विघ्नं करोषि नान्येन याजनं च तथेच्छसि ॥ १५ ॥ शापं ददामि तस्मात्तवं विदेहोऽद्य भविष्यसि¹ ॥ एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ ॥ १६ ॥ देहहीनौ तयोर्जीवौ ब्रह्मणमुपजग्मतुः ॥ आगतां तौ समीपेऽथ ब्रह्मा वचनमब्रवीत् ॥ १७ ॥


¹ 'भाविष्यसी' इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 201, कुल 1001 में से · BharatKosha