विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 205, कुल 1001 में से
संदर्भ में पढ़ेंमयतारौ समाश्रित्य भूयो देवान्प्रदुद्रुवुः ॥ २ ॥ तत्र देवगणाः सर्वे मयतारपुरःसरैः ॥ दानवैर्निहता युद्धे देवाचार्यं बृहस्पतिम् ॥ ३ ॥ संप्राप्ताः। शरणं विप्रं तांनुवाच बृहस्पतिः ॥ तारकश्च मयश्चैव महाबलपराक्रमौ ॥ ४ ॥ ययुर्जुष्टं देवगणांस्ताविमौ चोदयाम्यहम् ॥ एवमुक्ता. देवगणास्ते वा चार्यो बृहस्पतिः ॥ तुष्टाव देवदेवेशं बहुरूपं हुताशनम् ॥ ५ ॥ बृहस्पतिरुवाच ॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पावक ॥ वेदास्त्वदर्थं जाता श्च जातवेदास्तथा ह्यसि ॥ ६ ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वं हवींषि महाद्युते ॥ त्वं स देव चरस्यात्मा विष्णोरमिततेजसः ॥ ७ ॥ त्वं मुखं सर्वदेवानां सर्वस्यात्मा तथा भवान् ॥ ऊष्मा त्वं देहिनां देहे युक्तःपितवतस्तथा ॥८॥ यच्छक्तिः सर्वदेवानां त्वदीया भूतभावन ॥ प्राता त्वयाहुतिः सम्यग्गदित्य मुपतिष्ठते ॥ ९ ॥ आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ सर्वदेववरेशानः सर्वलोकनमस्कृतः ॥ १० ॥ त्रैलोक्यस्य समुत्पत्तावेकः कारणतां गतः ॥ कालाग्निरुद्रो भगवाञ्जगत्संहारकारकः॥११॥ स्थितौ निमित्तं च भवान्सर्वेषां देहिनां शमः॥ अतीव दुर्धरं देव तव तेजः सुदारुणम् ॥१२॥ तेजसा तेन दैत्येन्द्रान्दहि मा त्वं चिरं कृथाः ॥ सत्वाच ते रणे देव भविष्यति समीरणः ॥ १३॥ इत्येवमुक्तोऽङ्गिरसा महात्मा तथिति तं प्राह नृपेन्द्र पूज्यम् ॥ जीवेऽपि गत्वा पवनं जगाद देवैश्वरस्यानघसिद्धिमिच्छन्॥१४॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽग्निस्तोत्रं नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥ १२२॥ बृहस्पतिरुवाच॥जगदायुर्मेभवान्वायो शरीरस्थः शरीणिनाम्॥अनन्तमुर्तिर्धर्मात्मा देवो नारायणः प्रभुः ॥१॥ अचिन्त्यवीर्यः पुरुषः सदाधारः सनातनः ॥ २ ॥ साक्षिभूतश्च सर्वेषां कर्मणां शुभापायोः ॥२॥ प्राणस्त्वं देहिनां देहे चेष्टितञ्च तथा भवान् ॥ भवाञ्छ्रेष्ठो भवान्ब्रह्मा भवान्विष्णुः सनातनः ॥ ३ ॥ त्वायत्तं हि जगतां वर्षावर्ष शुभाशुभम् ॥ भवान्विसृजते मेघान्भवान्संहरते पुनः ॥ ४ ॥ भवान्धारयते मेघान्वर्षमाणंस्तथा दिवि ॥ आदित्यरश्मिपीतस्य मेधोदरगतस्य च ॥५॥ रसस्य भङ्गा सततं भवानेव नमस्त्वते ॥ तडिद्वन्तानां च तथा भवा न्कर्ता जगत्रये ॥ ६ ॥ अम्भसां भेदकत्वे तु सर्वाधारः समीरणः ॥ परस्परं हि भवतस्तथा संघटनात्प्रभोः ॥ ७ ॥ गर्जितं जायते लोके मेघोदर गतं महत् ॥ बलेन त्वत्समं नान्यं भूतं पश्यामि भूतले ॥ ८ ॥ तस्मात्त्वं कुरु साहाय्यं वद्भूर्हूतविभावसोः ॥ ९ ॥ एतावदुक्तोऽङ्गिरसा महात्मा तथेति तं प्राह समीरणोऽपि ॥ जगाम युद्धं सह पावकेन दैत्येश्वरान्वेदरिपून्महात्मा ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे वायुस्तोत्रं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥ ॥ मार्कण्डेय उवाच ॥ वायुवह्नी सहितौ गत्वा मयतारपुरोगमान् ॥ जिग्यतुः समरे दैत्यान्नानाप्रहरणोद्यतान् ॥ १ ॥ विजितास्ते रणे दैत्या मयतारपुरोगमाः ॥ त्यक्त्वादेवालयाः सर्वे वरुणालयमागताः ॥ २ ॥ एत