भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 207, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 207

न्द्रेन्द्रदेवौ न विव्यथे ॥ योधयामास स रणे गदया दानवान्बहून् ॥ १५ ॥ तस्य दैत्यप्रसक्तस्य कालनेमिर्महासुरः ॥ पातयामास वेगेन गदां गरुड़मूर्धनि ॥ १६ ॥ गदाघातेन रौद्रेण तेन तार्क्ष्यस्य मानद ॥ नासा भग्ना व्यथा जाता रक्तच्छर्दिश्च दारुणा ॥ १७ ॥ व्यथितं गरुडं दृष्ट्वा देवेन हरिमंधता ॥ क्षिप्तं दैत्यविनाशाय तदा चक्रं सुदारुणम् ॥ १८ ॥ यत्तत्सुदर्शनं नाम सूर्यतेजःसमुद्भवम् ॥ वज्रनाभं सहस्रारं शरपर्यन्तमण्डलम् ॥ १९ ॥ च्युतं चक्रिकरात्कर्म कालनेमिं महासुरम् ॥ शीघ्रं विशिरसं चक्रे विबाहुं च तथा नृप ॥ २० ॥ विबाहुशिरसं कृत्वा देवदत्तसुपौथिवान् ॥ विबाहुशिरसं कार्यं शरच्छोणितनिर्झरम् ॥ २१ ॥ न पपातस्य मेदिन्यां यदा तार्क्ष्यन्ततो रथात् ॥ उरसा पातयामास देवानां पश्यतां तदा ॥ २२ ॥ पतता दैत्यकायेन सशैलवनकानना ॥ कंपिता वसुधा सर्वा पतिताश्च शिलोच्चयाः ॥ २३ ॥ दानवेन्द्रं हतं दृष्ट्वा मयतापुरोगमाः ॥ तुष्टुवुर्देवदेवेशं वरचर्कासिपाणिनम् ॥ २४ ॥ तुष्टाव च तदा देवो ब्रह्मा शुभचतुर्मुखः ॥ स्तुतश्च ब्रह्मणा देवो लोकपालान्नथा पुरा ॥२५॥ स्थानेषु योजयामास यज्ञं देवसुखे तथा ॥ जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा विभुः ॥२६॥ तत्रात्मानं यज्ञमूर्ति मिज्यमानं द्विजोत्तमैः ॥ दृष्ट्वा स्वयं तु जग्राह यज्ञभागं महात्मनाम ॥ २७ ॥ तत्र पूजासुपादाय जगाम स हिरण्वतीम् ॥ अवेररजुगतस्तत्र सुष्वाप किल योगवित् ॥२८॥ एवं स दैत्यप्रवरो नरेन्द्र कृष्णेन चक्रेण पुरा निरस्तः ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥२९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेमिवधो नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ वज्र उवाच ॥ यदुक्तं दैत्यनाथेन दैत्यानां कालनेमिना ॥ पातालदैत्यशमनं वपुर्देवस्य चक्रिणः ॥ १ ॥ तदहं श्रोतुमिच्छामि तत्र मे संशयो महान् ॥ चरितं तस्य देवस्य भावान्विति यथातथम् ॥ २॥ मार्कण्डेय उवाच ॥ विष्णुना तु बलौ बद्धे पातालतलमाश्रिताः ॥ जघ्नुर्दैत्यगणा लोकान्ब्राह्मणांश्च विशेषतः ॥३॥ भूतले हन्यमाने तु यज्ञे नाशमुपागते॥क्षुत्क्षामैस्त्रिदशैर्ब्रह्मा दैत्येहतैः प्रनोदितः॥४॥ब्रह्मापि चोदयामास देवदेवं जनार्दनम्॥ब्रह्मणा चोदितो देवः पाताल गमनेच्छयाः ॥५॥ चकार रूपं वाराहं भिन्नाञ्जनचयप्रभम् ॥ शशाङ्कलेखोद्दंष्ट्राग्रं वज्रप्रायखुरं तथा ॥६॥ वज्रसंहननं भीमं त्रैलोक्यक्षोभकार कम् ॥ पीनवृत्तायतस्कन्धं महापीनशिरोधरम् ॥ ७ ॥ विवृतास्यं महाकायं भीमाक्षं भीमनिखनम् ॥ आवर्त्तरोमसंघातं तेन विग्रहसंजितम् ॥ ॥ ८ ॥ स समुद्वेग पातालें प्रविश्य मधुसूदनः ॥ दैत्यानां दर्शने तस्थौ महाबलपराक्रमः ॥ ९ ॥ पाताले सूकरं दृष्ट्वा प्रथदातितभूतलम् ॥ सुसुप्तगम्भीररवं शुंशुकारकृताननम् ॥ १० ॥ पङ्कलिप्तसर्वाङ्गं निर्यदुर्नदानवास्तदा ॥ सततं मुगशारीला जघ्नुस्तञ्च वरायुधैः ॥ ११ ॥