भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 209, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 209

दितिरुवाच ॥ शक्रहन्तारमिच्छामि पुत्रं ब्रह्मन्द्यशस्विनम् ॥ यदि तुष्टोऽसि मे ब्रह्मंस्तं प्रयच्छ सुतं मम ॥ ५ ॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तदा भर्तानातिप्रीतोऽब्रवीदिदम् ॥ एवं ते भविता भद्रे शुचि त्वं चेद्भविष्यसि ॥ ६ ॥ पूर्णं वर्षसहस्रं च नान्यथा तद्भविष्यति ॥ एव- मुक्ता तया सार्धमुवास रजनीं द्विजः ॥ ७ ॥ ततो जगाम धर्मात्मा तपसे दृढनिश्चयः ॥ आत्तस्थौ नियमं देवी सगर्भा च दितिस्तदा ॥ नियमस्थां तु तां दृष्ट्वा शक्रो वचनमब्रवीत् ॥ ८ ॥ शक्र उवाच ॥ अहं देवि करिष्यामि तव शुश्रूषणं सदा ॥ स्थिताया नियमे घोरे तद्वातुमर्हसि ॥ ९ ॥ मार्कण्डेय उवाच ॥ बाढमस्त्वित्यथोक्तस्तु तया देवः पुरन्दरः ॥ तत्रोवास च्छलान्वेषी शुश्रूषामरतं सदा ॥ १० ॥ तदाब्दशेषे काले च दिवा सुप्ताऽदितिर्नृप ॥ मध्याह्नसमये राजन्पादौः कृतमूर्द्धजा ॥ ११ ॥ तस्याः संप्राप्य तच्छिद्रं वज्री परपुरञ्जयः ॥ विवेश गर्भमार्गेण विवृतेनं नरे- श्वर ॥ १२ ॥ संप्रविश्यैव तं गर्भं वज्रेण शतपर्वणा ॥ कृतवान्सप्तधा वज्री भागंभागं ततः पुनः ॥ १३ ॥ एकैकं सप्तधा चक्रे गर्भोऽपि प्रारुद- त्तदा ॥ मा रुदस्वेति तं वज्री प्राह कार्ये स्वके स्थितः ॥ १४ ॥ एतस्मिन्नेव काले च दैत्येन्द्रजननी तदा ॥ विबुद्धा वारयामास शक्रं दशशते- क्षणम् ॥ १५ ॥ वज्रगर्भोऽञ्जलिः शक्रो मातृवचनयन्त्रितः ॥ निष्क्रामन्नोदरात्तस्याः सह बालैर्महात्मभिः ॥ १६ ॥ तं जगाद दितिः शक्रं प्राञ्जलिं पुरतः स्थितम् ॥ न ते शक्रापराधोऽस्ति मम गर्भनिकृन्तने ॥ १७ ॥ सर्वोपायैर्निहन्तव्यः शत्रुर्नेयविदा सदा ॥ ममापराधाद्गर्भोऽयं त्वयाद्य बहुधा कृतः ॥ १८ ॥ भवन्तु मरुतो नाम सर्वे देवाः पृथक्पृथक् ॥ मा रुदध्वमिति प्रोक्ता यतः शक्र त्वया सुताः ॥ १९ ॥ ततश्च मरुतो नाम भवि- ष्यन्ति जगत्त्रये ॥ त्वत्सहाया भविष्यन्ति त्वदाज्ञावशवर्तिनः ॥ २० ॥ न चैतेभ्यो भयं किञ्चित्कदाचिन्ते भविष्यति ॥ एषां नामविभागांस्त्व- स्थानानि च तथा कुरु ॥ २१ ॥ एकज्योतिश्च द्विज्योतिस्त्रिज्योतिरेव च ॥ एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ॥ २२ ॥ प्रथमे पवन- स्कन्धे गणोऽयं सुरथः स्मृतः ॥ इन्द्रश्च गण्यो दृश्यश्च इतः प्रतिशिरास्तथा ॥ २३ ॥ मितश्च संमितश्चैव अमितश्च महाबलः ॥ द्वितीय पवन- स्कन्धे गणो नाम प्रघोषकः ॥ २४ ॥ ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ अतिमित्रो नामित्रश्च पुरुमित्रोऽपराजितः ॥ २५ ॥ तृतीये पवनस्कन्धे गणः सन्तापनः स्मृतः ॥ ऋतश्च ऋतवान्धाता विधाता धरणो ध्रुवः ॥ २६ ॥ विचारणः चतुर्थेस्तु गृहमेधो गणः स्मृतः ॥ ईदृक्षश्च सदृक्षश्च एतादृग्भूततारनः ॥ २७ ॥ कीतनः प्रसदृक्षश्च सरम्भश्च महायशाः ॥ गृहे च रोषणा नाम वायुस्कन्धे च पञ्चमे ॥ २८ ॥ धर्ता दुर्गैष्व निर्भामो ह्यभियुक्तिः कृपा सहः ॥ षष्ठे तु पवनस्कन्धे सास्ती नाम गणः स्मृतः ॥ २९ ॥ द्युतिर्बपुर्नष्टशद्यो वासः कामो जयो विराट् ॥ मैत्रेवणो

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 209, कुल 1001 में से · BharatKosha