भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 210, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 210

गणो नाम वायुस्कन्धे च सप्तमे ॥ ३० ॥ एषां नामविभागन्तु दत्त्वा स्थानानि चाच्युतः ॥ जगाम स्वगृहं प्रीत्या दितिश्च स्वगृहं ययौ ॥ ३१ ॥ एतत्तेवार्त्तं मरुतां त्वीर जन्मोत्तमं पापभयापहारि ॥ यस्मिञ्छुतेनैव जनस्य लोके भयन्तु दृष्ट्या न भविष्यतीह ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मरुदुत्पत्तिर्नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥ १२७ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ जनयामास राजेन्द्र दनुर्दानवपुङ्गवान् ॥ विभाचित्तिंमुखान्वीरान्दैत्यपक्षमुपाश्रितान् ॥ १ ॥ कालं च जनयामास कालकेयान्सुदारुणान् ॥ दैत्यपक्षाश्रितान्क्रूरान्वृद्धान्दैवतगणे ॥ २ ॥ दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ॥ विरूद्धस्तु सदा देवैर्दैत्यपक्षमुपाश्रितः ॥ ३ ॥ सिंहिका जनयामास सैंहिकेयान्महासुरान् ॥ राहुसालमुखांन्वीरान्बृहन्मितिमतेजसः ॥ ४ ॥ गन्धर्वाप्सरसो दिव्या मुनयस्तान्निबोध मे ॥ चित्रसेनोर्ग्रसेनो च उर्णायुर्नघस्तथा ॥ ५ ॥ धृतराष्ट्रश्च गोपश्च सूर्यवर्चास्तथैव च ॥ युगपस्तृणपः पार्षिणर्धधिश्चरस्तथा ॥ ६ ॥ कलिः शालिशिराश्चैव पर्जन्यो नारदस्तथा ॥ तेषां चैव यवीयस्यो दिव्याश्चाप्सरसः शुभाः ॥ ७ ॥ अनूचानानवद्या च प्रियमुख्या गणेचरी ॥ मिश्रकेशी तथा चापि पर्णाशा पुञ्जिकस्थला ॥ ८ ॥ मरीचिः शुचिका चैव विद्युत्पर्णी तिलोत्तमा ॥ आदिका लक्ष्मणा क्षेमा देवी रम्बा मनोरमा ॥ ९ ॥ आसिता च सुबाहुश्च सुव्रता सुवपुस्तथा ॥ पुण्डरीका सुगन्धा च सुदारा सुरसा तथा ॥ १० ॥ हेमा शरदंती चैव प्रसूता कमला च या ॥ सुमुखी हंसमार्गा च सौरीयाप्सरसः स्मृताः ॥ ११ ॥ कद्रूश्च जनयामास नागांस्तीव्रपराक्रमान् ॥ येषां शेषः प्रधानस्तु विष्णोर्नागवपुर्धरः ॥ १२ ॥ येनेयं धार्यते भूमिः सशैलवनकानना ॥ आद्योही वासुदेवस्य पूर्वं मूर्तिर्मनोरिता ॥ १३ ॥ अनन्त इति विख्याता महाकल्पविनाशिनी ॥ महाकल्पे महासत्त्वे स्वयं भवति या सदा ॥ १४ ॥ तस्यांशेन समुत्पन्नः शेषो हि धरणीधरः ॥ तस्यानुजोऽस्ति नागेन्द्रो न्यायोन्त्येन वदाम्यहम् ॥ १५ ॥ वासुकिस्तक्षकश्चैव ऐलापुत्रो धनञ्जयः ॥ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ १६ ॥ शङ्खपद्मौ महाधन्वी धृतराष्ट्रबलाहकौ ॥ नीलाश्वः पुष्पदन्तश्च सुमखो दुर्मुखस्तथा ॥ १७ ॥ नहुषः करोग्मा च कुरुश्च कुलिकस्तथा ॥ क्रोधाश्च जनयामास दश कन्या नराधिप ॥ १८ ॥ पुलहाय च ता दत्ताः कश्यपेन महात्मना ॥ मृगा च मृगमन्दा च हरिर्भद्रा मनोहरा ॥ १९ ॥ भूता च कपिशा दंष्ट्रा सरसा सुरसा तथा ॥ इरा चैव तृणं सर्वं जनयामास भामिनी ॥ २० ॥ पञ्चप्रकारं धर्मज्ञ तं मे निगदतः शृणु ॥ वृक्षगुल्मलता वल्यस्त्वक्सारस्तृणजातयः ॥ २१ ॥ अन्तःसंज्ञा भवन्त्येता घोरेण तमसा वृताः ॥ एतेषामभिमानिन्यो देवता यदुनन्दन ॥ २२ ॥