विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 221, कुल 1001 में से
संदर्भ में पढ़ेंअनेनापि न चाख्याता पृष्टेन सुदती मम ॥ ३२ ॥ मयूर यदि जानीषे बालां बालमृगेक्षणाम् ॥ उर्वशीं कथयस्वाद्य क्व प्रिया मम वर्तते ॥ ३३ ॥ अन्तःशरीरं कामाग्निर्निर्दहति भास्करः ॥ तापात्तौ निःश्वसन्त्येते सिंहा गिरिगुहागताः ॥ ३४ ॥ निरस्तजिह्वाः संस्तप्ता विवृतास्या मुहुर्मुहुः ॥ यूथानि महिषाणां च शेरते नन्दिनीजले ॥ ३५ ॥ सूर्योद्धृतजलस्वेन्वे पङ्कशेषा सु शेरते ॥ गगनं चातकश्चायं तृष्णार्तो लोकते मुहुः ॥ ३६ ॥ स भृशं तोयपानार्थी उर्वशीयथ तथा त्वहम् ॥ यान्त्येते पद्मिनी खण्डाञ्कुञ्जरास्तापकर्पिताः ॥ ३७ ॥ सुहस्तमुत्क्षिप्तैश्च जलैः सिञ्चन्त्यात्मानमात्मना ॥ महाद्रुमाणां स्कन्धेषु विषण्णाश्चापरे गजाः ॥ ३८ ॥ तापं नयन्ति मध्याह्ने मुञ्चन्तः शीकरं मुहुः ॥ शाखापर्णान्तराण्यन्ते विहगास्तापतापिताः ॥ ३९ ॥ विशन्ति चैव त्राणार्थं मध्याह्नसमये भृशम् ॥ द्रुमशाखावगता ह्येते विहगानां च बालकाः ॥ ४० ॥ रक्तान्तचक्राः सुभृशं विशन्तीह मुहुर्मुहुः ॥ त्यक्ताहारक्रियाश्चैते मृगयूथा महावने ॥ ४१ ॥ द्रुमच्छायासु तिष्ठन्ति रोमन्थं कुर्व्वते मुहुः ॥ अवेक्ष्यमाणो दयितां भ्रातोऽस्मि विजये भृशम् ॥ ४२ ॥ छायायां विश्रमिक्ष्यामि शिरीषस्यास्य साम्प्रतम् ॥ तद्व्यात्तसुकुमाराणि पुष्पवाण्यस्य वनस्पतेः ॥ ४३ ॥ शिरीषवृक्षो रच्योऽयं मनोदृष्ट्यानन्दनः॥ किन्नु मां पीडयत्येष शिरीषस्तद्दिनाकृतम् ॥ ४४ ॥ सूर्य्यश्चास्तमुपायाति क्व गमिष्यामि शर्बरीम् ॥ अस्तं यातः सहस्रांशुर्निशा प्राप्ता सुदारुणा ॥४५॥ रात्रिमेनां विवत्स्यामि न्यग्रोधेऽस्मिन्महाद्रुमे ॥ उर्वश्या ऋद्धिरचिते वरवेश्मनि पार्थिवः ॥ ४६ ॥ स क्रीडति तया सार्धं सर्वकामैः सुपूजितः ॥ नूनं मां स जनो वेत्ति प्रतिष्ठानपुरे तु मे ॥ ४७ ॥ एतामवस्थ्यां कश्चिन्न न विजानाति साम्प्रतम् ॥ पौरो जन पदः कश्चिज्जनो मे दयितः सदा ॥ ४८ ॥ निद्रे भजस्व मांन्नेवं ध्रुवं स्वम्रे वराननाम् ॥ तां तु प्राप्स्याम्यहं सौम्यां मनसः प्रीति वर्धिनीम् ॥ ४९ ॥ कथमभ्युत्थितस्कन्धः पीडां जनयते मम ॥ तद्विक्रोविजितः पूर्वं विक्रोरत्यधुना मयि ॥ ५० ॥ तुद चन्द्र यथाकामं मम देहं विनाकृतम् ॥ त्वया तु नाथं संप्राप्य सापत्न्यं मम दर्शय ॥ ५१ ॥ हा हतोऽस्मि विनष्टोऽस्मि उर्वश्या रहितो वने ॥ चन्द्र पौत्रे कुरु दयां दर्शयस्व मम प्रियाम् ॥ ५२ ॥ शशाङ्क देव शीतांशो नृणां दृष्टिमनोहर ॥ आक्रन्दामि तवाद्याहं दर्शयस्व प्रियां मम ॥ ५३ ॥ अतत्त दर्शनस्यैव सा गता सुन्दरी मम ॥ अन्तर्धानं विशालाक्षी तां दर्शय ममोर्वशीम् ॥५४ ॥ कदाऽधररसं तस्याः पास्याम्यमृतसन्निभम् ॥ कदा दृक्ष्यास्म तां भूयः कमलोदरसन्निभाम् ॥५५॥ मृणालबाहुयुगलां पद्मवक्त्रां कदा प्रियाम् ॥ नीलोत्पलपलाशाक्षीमालिङ्ग्य तापं त्यक्ष्याम्यनङ्गजाम्॥५६॥