भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 222, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 222
प्र० खं०
अ० १३६
१० ध०
॥ ८७ ॥

अनङ्गशरत्रस्तस्य बाले भव गतिर्मम ॥ दर्शस्व दर्शनं सुभ्रूः का ममान्या गतिर्भवेत् ॥ ५७ ॥ काममोहेनगृहीतस्य त्वमेवाभूरुगार्तिभम् ॥ भूयस्त्वमेव
सुभगे गतिर्भव ममानघे ॥ ५८ ॥ एषा विरहिता रात्रिर्मम वर्षशतोपमा ॥ अन्वेष्टुं क्व गमिष्यामि निर्घृणां तां ममोपरि ॥ ५९ ॥ यस्याः कोप
न जानामि स्वप्नेऽपि वरवर्णिनि ॥ दैवेनोपहतास्त्याध्वा त्यक्ता सा सुभगा गता ॥ ६० ॥ मार्कण्डेय उवाच ॥ एवं स विलपञ्राजा त्यक्ताहारः
परिश्रमन् ॥ आससाद कुरुक्षेत्रं द्वादशाहेन पार्थिव ॥ ६१ ॥ पुष्करिण्यास्तटपृष्ठे पुष्करै रूपशोभिते ॥ निपसाद तदा श्रान्तः क्षुत्पिपासासमन्वितः ॥
विललाप स तत्रापि मदनेन वशीकृतः ॥ ६२ ॥ कदा नु तच्चन्द्रमसोऽनुकान्ति मुखं स्मितं चारुविलोचनायाः ॥ उद्दाम्य पश्याभ्यथचं
तृषातौं वारीव पान्थः पथि कृच्छ्रलभ्यम् ॥ ६३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवःप्रलापवर्णनो नाम पञ्चात्रिंशदु
त्तरशततमोऽध्यायः ॥ १३५ ॥ मार्कण्डेय उवाच ॥ उर्वश्यापि वरारोहा मदनेनाभिपीडिता ॥ जगाद नारदस्त्याथ स्वामवस्थां नृपं विना ॥ १ ॥
तत्ततां नारदः प्राह सुभगे गच्छ पार्थिवम् ॥ तस्याप्यवस्था महती त्वद्विहीनस्य सुन्दरी ॥ २ ॥ एकां रात्रिं नरेन्द्रण सहायं वरवर्णिनि ॥
स्वर्गलोगात्पुपागच्छ श्रेयः प्राप्स्यसि वै ततः ॥ ३ ॥ नारदेनैवमुक्ता सा सर्वाभिर्बहुभिर्वृता ॥ पुष्करिण्यास्तटपृष्ठे यत्रौ स्नातुं वरानना ॥ ४ ॥
एतस्मिन्नेव काले तु निद्रयोपहतो नृपः ॥ अप्सरोभिश्चसंभ्रातस्तत्र सुप्वाप पार्थिव ॥ ५ ॥ अद्य यास्यामि राजानमिति दृष्ट्वा तदोर्वशी ॥ क्रीडन्त्य
जले तस्मिन्सखीगणवृता तदा ॥ ६ ॥ त्यक्तनिद्रो नरेन्द्रोऽपि विललाप चिरं पुनः ॥ शुश्राव विलपन्तं सा सखीभिः सहिता नृपम् ॥ ७ ॥
दर्शयामास चात्मानं पार्थिवस्य शुभा ततः ॥ उवाच च वरारोहा नारदोक्तमशेषतः ॥ ८ ॥ तत्रैवेवावस तां रात्रिं सह तेन वरानना ॥ गत्रिंक्षये
विसृष्टं सा राजानं वाक्यमब्रवीत् ॥ ९ ॥ उर्वशीयुवाच ॥ आराधयस्व गन्धर्वांन्मोहं त्यक्त्वा नरेश्वर ॥ तेषां प्रार्थय मां सौम्य ततः प्राप्स्यसि मा
चिरम् ॥ १० ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा ययौ स्वर्गं राजा तत्रैव पार्थिव ॥ स विपुले चक्रे तद्गतेनैव चेतसा ॥ ११ ॥ अथ संवत्सरे पूर्णे
सूर्योदयनं प्रति ॥ नारदं पुरतः कृत्वा गन्धर्वा दर्शने ददुः ॥ १२ ॥ गन्धर्वा ऊचुः ॥ वरं वरय राजेन्द्र यदिच्छसि महाभुज ॥ वयं हि तव
दास्यामः सर्व एवामरप्रभाः ॥ १३ ॥ पुरूरवा उवाच ॥ भवन्तश्चेत्प्रसन्ना मे यदि मे रोचते वरम् ॥ उर्वशी सह चार्वाङ्गीं भर्वाद्धर्मम् दीयतामम ॥ १४ ॥
गन्धर्वा ऊचुः ॥ स्थालीं पूर्णीममां राजन्गृहाणामितविक्रमै ॥ अस्मादग्निं त्रिधा कृत्वा यजस्व विगतज्वरः ॥ १५ ॥ वेदोक्तेन विधानेन गन्धर्वत्व
मवाप्स्यसि ॥ त्रेताभिपूर्वस्य विधेरस्मिन्मन्वन्तरे भवान् ॥ १६ ॥ भविता दर्शता लोकंगुरुश्च जगतोपतिः ॥ गन्धर्वत्वमवाप्याथ राजन्प्राप्स्यस्यथो