भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 225, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 225

अमावस्याममावस्यां नियतं चन्द्रभास्करौ ॥ २९ ॥ दृष्टं यातौ महीपालमेकराशिगतौ सदा ॥ उर्वश्या सहितं पौत्रं यदा पश्यति चन्द्रमाः ॥ ३०॥ तदा सुधारसं देवः स्नेहात्स्रवति मानद ॥ सुधामृत्सन्नं तं च पिबन्ति पितरः सदा ॥ ३१ ॥ श्राद्धकालस्तदायुक्तो नृणां नृपवरोत्तम ॥ तदा श्राद्धं हि यद्दत्तं सुधारसविमिश्रितम् ॥ ३२ ॥ तद्दर्शन्ति महीपाल पितरोऽमृतसविभ्रमम् ॥ अमावस्याममावस्यां तदा श्राद्धं प्रयत्नतः ॥ ॥ ३३ ॥ कुरुष्व भूमिपश्रेष्ठ सर्वकामानवाप्स्यसि ॥ येऽपि श्राद्धं करिष्यन्ति तदा चान्ये नराधिप ॥ ३४ ॥ तेषामप्यायुर्यशः सौख्यं दास्यन्ति प्रपितामहाः ॥ देवकार्यादपि श्रेष्ठं पितृकार्यं प्रचक्षते ॥ ३५ ॥ पितरो नाम राजेन्द्र देवानामापि देवताः ॥ राज्यकामः स्वर्गकामः पुष्टिकामस्तथैव च ॥ ३६ ॥ पितॄन्सन्तर्पयेच्छ्राद्धे चन्द्रसूर्यसमागमे ॥ वसन्ति सततं राजन्पितरश्चन्द्रमण्डले ॥ ३७ ॥ तेषां मासमहोरान्नं विभागं तत्र मे शृणु ॥ कृष्णपक्षाष्टमी मध्ये तेषामुद्ययते रविः ॥ ३८ ॥ शुक्लाष्टम्यां तथैवास्तं तेषां याति दिवाकरः ॥ अमा वस्या तदा तेषां मध्याह्नं जायते नृप ॥ तस्माच्छ्राद्धानि देयानि तस्मिन्काले प्रयत्नतः ॥ ३९ ॥ एतावदुक्तं नृपवर्य तस्य धर्मत्मजस्याऽप्रतिमस्य वृत्तम् ॥ धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पापहरं सुखं च ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवसः स्वर्ग प्राप्तिर्नाम सप्तत्रिंशादुत्तरशततमोऽध्यायः ॥ १३७ ॥ ॥ वज्र उवाच ॥ वर्तन्ते पितरः स्वर्गे केषांचित्नरके तथा ॥ नरकस्थाः फलं दातुं कथं शक्ता वदस्व मे ॥ १ ॥ मार्कण्डेय उवाच ॥ पितृणां तु गणाः सप्त नामतस्तान्निबोध मे ॥ त्रयोऽमूर्त्तिमंतस्तेषां चत्वारश्चामूर्त्तयः ॥ २ ॥ सभासुरा बहि षदोऽग्निव्वात्तास्तथैव च ॥ त्रयो मूर्त्तिमंतस्तेषां चत्वारश्चाप्यमूर्त्तयः ॥ ३ ॥ क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥ मूर्तिमन्तः पितृगणाश्च त्वारश्च प्रकीर्तिताः ॥ ४ ॥ सुभास्वरा ब्रह्मणः पुत्राः सोमपाप्याययन्ति ये ॥ ब्रह्मलोकचरा राजंस्त्रैलोक्यं मूर्त्तिविवर्जिताः ॥ ५॥ तथा बर्हिषदो नाम राज पुत्रा मरीचिनः ॥ आप्याययन्ति ते दैवाँल्लोके सोमपदे स्थिताः ॥ ६ ॥ विप्रजलोके तिष्ठन्ति अग्निष्वात्ता नराधिप ॥ पुलस्त्यस्य ऋषेः पुत्रा भावयन्ति जगन्ति ते ॥ ७ ॥ दानवान्यक्षगन्धर्व्वान्पन्नगान्गोरगान्क्षसान् ॥ दैत्यान्भूतपिशाचांश्च विद्याधरणगांस्तथा ॥ ८ ॥ नागान्सुपर्णान्पुण्यांश्च पर्वतान्सत्सरिस्तथा ॥ क्रव्यादौँश्चोपहूतांश्च अन्यपाँश्च सुकालिनः ॥ ९ ॥ ब्राह्मणाक्षत्रियान्वैश्यान्भावयन्त्यन्यजांस्तथा ॥ कवेरङ्गिरसश्चैव कर्द मस्य प्रजापतेः ॥ १० ॥ वसिष्ठस्य तथा पुत्राः क्रमेणैते प्रकीर्तिताः ॥ ज्योतिर्भासः स्मृता लोके ये च लोका मरीचिनः ॥ ११॥ तेजस्विनो मान साश्च क्रमेणैते प्रकीर्तिताः ॥ एते श्राद्धस्य भोक्तारो विधेर्देवैः सदा सह ॥ १२ ॥ एते श्राद्धं सदा भुक्त्वा पितॄन्संतर्पयन्त्यतः ॥ यत्र क्वचन धर्मज्ञ