भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 235, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 235

दुष्कर्मा दम्भकस्तथा ॥ यश्च युक्तस्तथा राजन्पातकैश्चोपपातकैः ॥ ११ ॥ द्विषन्मित्रे उभे चैव प्रयत्नेन विवर्जयेत् ॥ अतः परं प्रवक्ष्यामि ब्राह्मणांम्पङ्क्तिपावनान् ॥ १२ ॥ ब्रह्मदेयानुसन्तानः तपस्वी विजितेन्द्रियः ॥ पारगो यजुषां यश्च सामवेदस्य पारगः ॥ १३ ॥ ऋग्वेदपारगो यश्च सुवर्णरङ्गसम्पारगः ॥ अथर्वशिरसोऽध्येता त्रिसुपर्णस्य पारगः ॥ १४ ॥ त्रिणाचिकेतः पञ्चाग्निधर्मशास्त्रविशारदः ॥ पुराणपारगो यश्च इतिहासविशारदः ॥ १५ ॥ अधीते सोत्तरं यश्च विष्णुधर्ममिदं शुभम् ॥ विजानाति यथावच्च यश्च व्याकरणं नृप ॥ १६ ॥ ज्योतिषश्च तथा वक्ता आयुर्वेदस्य च द्विजः ॥ ताभ्यां वृत्तिं न चेत्कुर्याद्वृत्तिस्ताभ्यां विगर्हिता ॥ १७ ॥ आहिताग्निश्च यो विद्वांत्सोमपश्च द्विजोत्तमः ॥ गुरुशुश्रूषणपरस्तीर्थपूतश्च यादव ॥ गायत्रीजपपिनरतो योगी ध्यानपरायणः ॥ १८ ॥ यस्याव्यनन्ते जगतामधीशे भक्तिः परा यादव वृन्ददेवे ॥ तस्मात्परं नाप्यमस्ति किञ्चित्पात्रं त्रिलोके पुरुषप्रवीर ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पात्रापात्रपरीक्षाविवि- र्चनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥ वज्र उवाच ॥ कस्मिन्त्सुबहुफलं श्राद्धं देशे ब्राह्मणपुङ्गव ॥ एतन्त्सर्वं समाचक्ष्व भवान्त्वल्ह- इवाऽपरः ॥ १ ॥ मार्कण्डेय उवाच ॥ गयाशीर्षवटे श्राद्धमक्षय्यं परिकीर्तितम् ॥ यद्दर्पणमैया चरति गाया लोके पुरातनी ॥ २ ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ३ ॥ पुष्करेष्वक्षयं श्राद्धं प्रयागे नैमिषे तथा ॥ वाराणस्यां प्रभासे च कुरुक्षेत्रे समन्ततः ॥ ४ ॥ सन्निहत्यां विशेषेण राहुग्रस्ते निशाकरे ॥ (राहुग्रस्ते दिनकरे सन्नीत्यां पार्थिवोत्तम) ॥ ५ ॥ श्राद्धं कृत्वा समाप्नोति राजन्सुचरितं नरः ॥ अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम्॥६॥ स्नात एव तदामोति कृत्वा श्राद्धं स मानवः॥सर्व्वेषु देवलोकेषु कामचारी विराजते॥७॥पञ्चवर्णेन यानेन किङ्किणीजालमालिना ॥ देवरामागणादृष्टेन वीणासुरजनादिना ॥ ८॥ दिव्यश्वेताम्बुयुक्तेन कामगेन यथासुखम् ॥ आभूतसंप्लवं यावत्क्रीडत्यप्सरसां गणैः ॥ ९ ॥ कृतकृत्यश्च भवति पितॄणामनृणस्तथा ॥ श्राद्धं तथा पितॄणां च नोपयुज्येत वै पुनः ॥ १० ॥ यत्र क्वचन गङ्गायां श्राद्धस्यानन्त्यमुच्यते ॥ यमस्य भगिनी देवी यमुना पापनाशिनी ॥ ११ ॥ यत्र क्वचन तस्यां हि श्राद्धस्यानन्त्यमुच्यते ॥ पितॄणां दुहिता राजन्नर्मदा सरितां वरा ॥ १२ ॥ तस्यास्तीरे तथानन्तं श्राद्धं सर्वत्र पार्थिव ॥ अक्षयं च तथा श्राद्धमपारान्तिकपर्वते ॥ १३ ॥ वराहपर्वते राजञ्छ्राद्धस्यानन्त्यमुच्यते ॥ हिमवान्पर्वतश्रेष्ठः शङ्करश्वशुरो गिरिः ॥ १४ ॥ आकरः सर्व्वरत्नानां सर्व्वसत्त्वमपाश्रयः ॥ ताम्रनाला


१ 'पारगोऽथ्युर्वशाखायाम्' इति ख० । २ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति ।