विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 237, कुल 1001 में से
संदर्भ में पढ़ेंधर्मकर्मार्थसाधकः ॥ १७॥ भवत्यव्याकृतैर्भावैः पुरुषो नात्र संशयः ॥ नारी च दाल्भ्य धर्मज्ञ व्रतमेतद्यथाविधि ॥ १८॥ या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥ वैधव्यं दुर्भगत्वं वा भर्तुर्वैद्धयं च सत्तम ॥ १९॥ नाप्नोति जन्मत्रितयमेतच्चोर्त्वा पतिव्रता ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयावर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४५ ॥ दाल्भ्य उवाच ॥ उपवासान्वितं सम्यक्लोकद्वयफलप्रदम् ॥ कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ॥ १ ॥ अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे ॥ संसारेऽहं मुक्तिञ्च संसारान्मुनिसत्तम ॥ २ ॥ पुलस्त्य उवाच ॥ अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम ॥ संसारस्यास्य तन्मुक्तिः संक्षेपाच्छ्रूयतां मम ॥ ३॥ स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ॥ कुर्वतः क्षीयते पूर्वमन्यच्चैन्नोपचीयते ॥ ४ ॥ अपूर्वसंभवाभावात्क्षयं याते तु कर्मणि ॥ १ दाल्भ्य संसारविच्छेदः कारणाभावसंभवः ॥ ५ ॥ भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम् ॥ संसारविद्युतेर्दाल्भ्य समासाद्वदतो मम ॥ ६ ॥ गृहीता कर्मणा येन पुंसा जातिर्द्विजोत्तम ॥ तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ॥ ७ ॥ ब्राह्मणक्षत्रियविशां शूद्राणाञ्चापि यत् सत्तम ॥ स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ॥ ८ ॥ जातिप्रदस्याल्पत्वं तदेवाद्यास्य कर्मणः ॥ ज्ञानकारणभावं च तदेव प्रतिपद्यते ॥ ९ ॥ पुमाँश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम ॥ ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययात्मना ॥ १० ॥ एतत्ते कथितं दाल्भ्य संसारस्य समासतः ॥ कारणं भवमुक्तिश्च जायते योगिनो यथा ॥ ११ ॥ मार्कण्डेय उवाच ॥ इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः ॥ आराधयामास हरिं लेभे कामांश्च वाञ्छितान् १२ ॥ तथा त्वमपि राजेन्द्र केशवाराधनं कुरु ॥ आराध्य तं जगन्नाथं न कश्चिद्व्यसीदति ॥ १३ ॥ एतन्मयोक्तं सकलं तव भूमिप पृच्छतः ॥ अनाराध्याच्युतं देवं कः कामानाप्नुयान्नरः ॥ १४ ॥ वज्र उवाच ॥ भगवानवतीर्णोऽभून्मर्त्यलोकेमिहाच्युतः ॥ भागवततारणार्थाय सुव्रो भीष्महितैषिणैः ॥१५॥ मातृष्वत्रे च गोविन्दो मम पूर्वपितामहः ॥ चकार प्रीतिमतुलां पाण्डुपुत्रैः सह द्विज ॥१६॥ साच्यं कृतवाँश्चैव तेषां सर्वेश्वरो हरिः ॥ निस्तीर्णो येन भीष्मोधौ कुरुसैन्यमहोदधिः ॥१७॥ उपकारी महाभागः स तेषां सर्ववस्तुषु ॥ केशवः पाण्डुपुत्राणां सुतानां जनको यथा ॥ १८ ॥ धन्यास्ते कृतपुण्याश्च ते मे पाण्डुसुता मताः ॥ विविशुर्ये परिष्वङ्गैरङ्गोविन्दस्यजङ्गमम् ॥ १९ ॥ गज्यहेतोरिहार्जुन कस्मात्पाण्डुनन्दनाः ॥ सप्तलोकैकनाथेन ये भवन्त्येकशायिनः ॥ २० ॥ आत्मानमनुगच्छामि भगवन्तकलम्वम् ॥ जातं निधूतपापैऽस्मिन्
१ 'क्षयं यात्यादिकर्मणि' इति ख० ।