विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 243, कुल 1001 में से
संदर्भ में पढ़ेंतपसा यत्र सिद्धिः प्राप्येत तापसैः ॥ १५ ॥ यश्च दर्शनमात्रेण सर्वकल्मषनाशनः ॥ महापातसंपातप्रभीतखगबन्धुभिः ॥ १६ ॥ वायुनीत सदावाहिः कृतदेशं कचित्कचित् ॥ अल्पस्वल्पजलैः शृङ्गैः कचिच्चातिसमुच्छ्रितैः ॥ १७ ॥ नित्यार्कतापविषमं दुर्गम्यैर्मनसाप्युतम् ॥ देवदारु महावृक्षपुञ्जशाखानिरन्तरैः ॥ १८ ॥ समन्तसुवनाकारैः प्रदेशैरुपशोभितम् ॥ हिमच्छन्नमहाशृंगं प्रपातनितनिर्झरम् ॥ शङ्खलक्ष्माभिविषमं हिमसंरुद्धकन्दरम् ॥ १९ ॥ दृष्ट्वैवं तां चाहानितन्भूमिं महाप्रभावः स महीन्द्रनाथः ॥ बभ्राम तत्रैव मुदा समेतः स्थानं ततः किञ्चिदया- ससाद ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिमवद्वर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ तस्यैव पर्वतैन्द्रस्य प्रदेशं सुमनोहरम् ॥ अगम्यं मानुषैरन्यैर्देवयोग्यादुपागतः ॥ १ ॥ इरावती सरिच्छ्रेष्ठा यस्माद्देशा- द्विनिर्गता ॥ मेघश्यामं च तं देशं द्रुमखण्डैरनेकधाः ॥ २ ॥ सालैस्तालैस्तमालैश्च कर्णिकारैः सशाल्मलैः ॥ न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपादुरुमैः ॥ ३ ॥ श्लेष्मातकैरामलकैर्हरीतकीविभीतवैः ॥ रभ्यैश्चन्दनवृक्षैश्च कपित्थै रक्तचन्दनैः ॥४॥ वटैर्माहिषकैश्चाटैरश्वकर्णैस्तथार्जुनैः ॥ हस्तिकर्णैः सपनसैः कोविदारैः सुपुष्पितैः ॥५॥ देवदारुमहावृक्षैस्तथा कालियकद्रुमैः ॥ पद्मकेश्र्वन्दनैर्नीलवैः कुटजैर्हरिचन्दनैः ॥ ६॥ प्राचीनामल- रुकैश्च स्थूणिकैः सप्तपण्डिकैः ॥ खर्जूरैरौशिरैश्च प्रियालव्रातकेतकैः ॥७॥ तेरुमानवैतवैर्भव्यैः काश्मीरैः फालिमिरुतथा ॥ जातिफलैः पूगफलैः कदफ्फलैर्लवलीफलैः ॥ ८ ॥ मन्दारैः कोविदारैश्च किंशुकैः कुसुमांगुभिः ॥ पलाशैः शमिसंछासंवैतसव म्लवेतसैः ॥ ९॥ रक्तातिरज्जनाज्ञिर्जिरिगुंदैः सप्रियंगुभिः ॥ रक्ताशोकैस्तथाऽशोकैरुत्तंसैः सचिरान्त्रिकैः ॥१०॥ मुचुकुन्दैस्तथा कुन्दैराटूरूपपद्मरूपकैः॥किंकरोतैः किरातैश्च केतकैश्च सकेतकैः ॥११॥ शोभाञ्जनैश्च सनैश्च मूकुलकनिकोत्चकैः ॥ सुपूगैश्चारुवसनैर्दुमैः श्रेष्ठस्तथासनैः ॥ १२ ॥ मन्मथस्य शराकारैस्सहकारैर्मनोहरैः ॥ पीतयूथिकया राजडूथिकया तथा ॥ १३॥ जात्या चम्पकजात्या च तुम्बूरैश्चाप्युदुम्बरैः ॥ माषैश्चौधैस्सलकुचैस्तिलवक्वलंकुशैर्भलैः ॥ १४ ॥ तथा सुपद्मपाव- रणैर्वरणैः कामिवल्लभैः॥पुष्पालुकैश्च वकुलैः पारिभद्रकमर्द्रकैः॥१५॥ धाराकदैवैः कुटजैः कदंबैर्गिरिकूटजैः॥ आक्रान्तसर्वकुंकुमैः कुंकुमैः कमनीयकैः ॥ ॥१६॥ कर्कन्धुबदरैर्नीपैः दीपेरिव महोत्सवजैः ॥ रक्तैः पालेवितैः श्वेतैर्दाडिमैश्चान्यकद्रुमैः ॥१७॥ प्रतानैः पिप्पलीनां च नागवल्ल्याश्च भागशः ॥ मरिचस्य तथा गुल्मैर्नवमल्लिकया तथा ॥ १८ ॥ मृद्वीकामण्डलैश्चोव्यैरित्युक्तकमण्डलैः ॥ त्रपुसैर्व्वारुकानां च प्रतानैः सफलेः शुभैः ॥ १९ ॥ कूष्माण्डानां प्रतानैश्च अलाबूंनां तथा क्वचित् ॥ चिर्भटस्य प्रतानैश्च पटोलैः कारवेल्लकैः ॥ २० ॥ कर्कटीकैः प्रतानैश्च वार्त्ताकैर्वृंहतीफलैः ॥