भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 247, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 247

भगवान्देवदेवो जनार्दनः ॥ भोगिभोगावलीसुतः सर्वालङ्कारभूषितः ॥ २८ ॥ जानुमाकुञ्चितन्त्वेकं देवदेवस्य चक्रिणः ॥ फणीन्द्रसन्निधौधात्रि द्वितीयञ्च तथा नृप ॥ २९ ॥ लक्ष्म्युत्सङ्गतोबिभ्रत्तु शेषभोगप्रसारितः ॥ फणीन्द्रभोगविव्यस्तबाहुकूर्परशोभितः ॥ ३० ॥ स्वाङ्गुलीपृष्ठविन्यस्त देवशीर्षधरं विभुम् ॥ एकं तु देवदेवस्य द्वितीयं संप्रसारितम् ॥ ३१ ॥ समाकुञ्चितजानुस्थमणिबन्धसुशोभितम् ॥ किञ्चिदङ्कुशितं चैव नाभिमद्देशे करस्थितम् ॥ ३२ ॥ तृतीयं च भुजं तस्य चतुर्थं तु तथा शृणु ॥ आत्तसन्तानकुसुमं घ्राणदेशानुसापिणम् ॥ ३३ ॥ लक्ष्म्या संवाह्यमानांघ्रिः फुल्लपद्म निभैः करैः ॥ सन्तानमालामुकुटं हारकेयूरभूषितम् ॥ ३४ ॥ धूपितं च तथा देवमङ्गेरङ्गुलिचीरकैः ॥ फणीन्द्रफणविव्यक्तचारुरत्नशिखोज्ज्व लम् ॥ ३५ ॥ अङ्गास्तवस्तुरितं प्रतिष्ठितमथात्रिणा ॥ सिद्धान्तपूज्यं सततं समन्तात्कुसुमार्चितम् ॥ ३६ ॥ दिव्यगन्धावलिताङ्गं दिव्यधूपेन धूपि तम् ॥ गोरसैः सफलेर्दूर्वैः सिद्धैरुपहृतैः सदा ॥ ३७ ॥ संशोभितं पुरःपार्श्वे देवमुत्तमशोभिकम् ॥ तथा पश्चान्सुखं दृष्ट्वा ववन्दे स नराधिपः ॥ ३८ ॥ जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि ॥ नाम्नां सहस्रेण तथा तुष्टाव मधुसूदनम् ॥ ३९ ॥ प्रदक्षिणमथो चक्रे स तृप्त्याय पुनःपुनः ॥ रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे नृपः ॥ ४० ॥ विशालां हि गुहां काञ्चिदाश्रित्य सुमनोहराम् ॥ तपश्चकार तत्रैव पूजयन्तो जनार्दनम् ॥ ४१ ॥ नानाविधैः सदा पुष्पैः फलैर्मूलैः सुगोभसैः ॥ नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ॥ ४२ ॥ देवापीपीडितैः कुर्वन्सततं प्राणधारणम् ॥ सर्वा हारपरित्यागं स कृत्वा मनुजेश्वरः ॥ ४३ ॥ अनाश्रितगुहाशायी कालं नयति पार्थिवः ॥ त्यक्ताहारक्रियस्यास्य केवलाम्भोऽशनस्तथा ॥ ग्लानि स्तस्य समायति न शरीरे तदद्भुतम् ॥ ४४ ॥ एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव ॥ तत्राश्रमे कालमुवास कञ्चित्स्वगोपिमे दुःख मविन्दमानः ॥ ४५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आश्रमवर्णनो नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥ १५२ ॥

मार्कण्डेय उवाच ॥ गत्वाश्रमपदं राजा त्यक्ताहारपरिच्छदः ॥ क्रीडाविहारंगन्धर्वैः पश्यत्यप्सरसस्सह ॥ १ ॥ कृत्वा पुष्पोच्चयं भूरि *प्रग्रथित्वा तथा सजः ॥ अत्र निवेद्य देवाय गन्धर्वेभ्यस्तथा ददौ ॥ २ ॥ पुष्पोचयप्रसक्तानां क्रीडन्तीनां यथा सुखम् ॥ चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ॥ ३ ॥ काश्चित्पुष्पोचये सक्ता लताजालेन वेष्टिताः ॥ सर्वोजननेन सत्त्यक्ताः कान्तेन परमोक्षिताः ॥ ४ ॥ मकरन्दसमाक्रान्तनयनाः काश्चिदङ्गनाः ॥ कान्तनिःश्वासवातेन नीरजस्कीकृतेक्षणाः ॥ ५ ॥


१ 'समन्तत' इति क०-।